________________
चन्द्रराजचरित्रम् - एकविंशः परिच्छेदः सा केवलं सरलपक्ष्मभिरक्षिपातैः, कान्तं विलोकितवती जननिर्विशेषम्
सूर्यकुण्डे कुक्कुटस्योद्धारः
॥४२॥
तदीयाऽखिलाप्याशा युगपदेव पूर्णाऽभूत्, सत्वरमेवाऽयं समाचारो व्योम्नि विद्युदिवाऽखिले नगरे प्रससार चानेन चतुर्दिक्षु प्रमोदाब्धिकल्लोला उत्तस्थिवांसः । तीर्थवासिभिर्देवैर्मुक्ता पुष्पवृष्टिस्तदुपरि पपात, सर्वत्राऽस्य तीर्थस्य माहात्म्यं विस्तृतम् । सूर्यकुण्डोदकं ततःप्रभृति पापपङ्कप्रक्षालकत्वेन प्रसिद्धमभूत्, अस्यैव कुण्डस्य प्रभावाद्राज्ञश्चन्द्रस्य मनुष्यत्वप्राप्तिर्जातेति सर्वैरबोधि । प्रेमलया यदा राजा चन्द्रः परिचितस्तदा सा नैसर्गिकहिया संकुचिता जाता । पुनरपि तयाऽञ्जलिं संयोज्य विनयेन तस्मै विज्ञपितम्स्वामिन्! साम्प्रतमस्य कुण्डस्योदकेन स्नात्वा श्रीॠषभजिनेश्वरो भवतार्च्यताम् ।
यतः
एअं जम्मस्स फलं सारं विहवस्स इतिअं चेव । जं अच्चिज्जइ गंतुं, सत्तुंजे रिसहतित्थयरो
૫૪૫
अस्य गिरिराजस्य महिम्ना मामकीनं सर्वं कार्यं समपद्यत, अतोऽस्याऽपि वरिवस्या विधीयताम् । सहैव सम्यक्त्ववृक्षमपि भक्तिरसेन सिच्यताम्, येन सपल्लवितकुसुमितः स विरक्तिफलमुत्पादयेत् । राज्ञा चन्द्रेण प्रेमलोक्तमङ्गीकृतं, ततो जायापती तत्राऽभिषिच्योत्तमैरष्टद्रव्यैः सोत्साहं परमात्मनः श्रीऋषभदेव
स्वामिनो द्रव्याच चक्रतुः ।
यतः
।। २२० ।।