________________
*
चन्द्रराजचरित्रम् - त्रयोदशः परिच्छेदः
आभानरेशस्याऽन्वेषणम् तत्राऽगच्छत् । चानेके नागरिका अपि तेन सह जग्मुर्जङ्घाचारणमुनिराजं वन्दित्वा सर्वे यथास्थानमासत । तेनाऽनन्तरं दत्तां धर्मदेशनां श्रुत्वा बहुभव्यजीवानां प्रतिबोधप्राप्तिर्बभूव, तैश्च तदानीमेव गुरुसमक्षेऽनेकविधं व्रतनियमादिकं जगृहे ।
यतः
इह भुवि कलयति लघुरपि, महतां सङ्गेन कमपि महिमानम् । लङ्घयति शशिनि लीनः, खमण्डलं हेलया हरिणः ॥३२॥
प्रेमलाऽपि शुद्धसम्यक्त्वधारिणी श्राविकाऽभूत् । अन्यत्र कृतविहारे गुरौ सर्वे स्वस्वस्थानमागताः प्रेमलाऽपि ततः प्रभृति जिनवन्दने पूजनादिधर्मकार्येषु च विशेषेणाऽनुरक्ता जाता । साऽनुक्षणं नवकारमन्त्रस्य जपं कुर्वाणा पुण्यमयं जीवनं गमयन्ती
धन्यमन्या जाता ।
यतः
अपुव्यो हि कप्पतरू, एसो चिंतामणी अपुव्यो अ । जो झायइ सयकालं, सो पावइ सिवसुहं विउलं
॥३३॥
गतेषु कतिपयदिनेषु तन्मन्त्रप्रजपनप्रभावात् प्रकटीभूतैका शासनदेवता प्रेमलां प्रोवाच - भगिनि ! ते पतिरवश्यं मिलिष्यति, किन्तु सम्प्रति तत्र विलम्बोऽस्ति । विवाहदिनात् षोडशवर्षे गते तेन सह ते संगमोऽवश्यं भविष्यति । तावत्त्वयेत्थमेव परमात्मनो भक्तौ कालो निर्गमनीयः, कापि चिन्ता च न करणीया ।
प्रेमलयैष समाचारः पितृभ्यां निवेदितस्तेन तावपि निश्चिन्तौ जातौ । तन्मन्त्रस्य तत्प्रत्यक्षप्रभावं विलोक्य तत्राऽतिश्रद्धावती
।। १३६ ।।