________________
चतुर्थः काण्डः।
लहरी लहरिः, फेने डिण्डीरः सहिण्डीरकः । . पिण्डीर-दिण्डीरौ तट्यां तटं तटः प्रतीरवत् ॥९८॥.. तीरं रोधोऽदन्तः पुंसि रोधः सान्तं नपुंसके। जलोज्झितेऽस्मिन् पुलिनं पुरिनं सैकतं तथा ॥९९॥ सिकता, नद्यां हदिनी हादिनी च धुनी धुनिः। आपगाऽथाप्यपगा श्रोतो दन्त्य-तालव्यगादिमम्॥१०॥ स्रोतखिनी स्रोतवती स्रोतोवहा स्रवन्तिका । द्रवन्त्योषधिभेदेऽप्यमू भवेतां च, गोदया ॥१०॥ गोदावरी, सूर्यात्मजा तापिस्तापी शतद्रुयुक् । शुतुद्रिः शुतुगुरपि शितगुः सरयूयुता ॥१०२॥ सरयुः कोसलानद्यां, नदीभेदे तु चन्द्रिका । चन्द्रभागा चन्द्रभागी भागी चान्द्राच भागया॥१०३॥ वासिष्ठयां गोमती तद्वत् गोतमी स्याद् विपाड्युता । विपाशोक्ता, वैतरणी वैतरणिरवन्तिगा ॥ १०४ ॥ सिप्रा सृप्रापि, स्वतोऽम्भःसरणे श्रोत उच्यते । दन्त्य-तालव्ययुग् देहसिरास्वपि प्रवाहके ॥ १०५ ॥ वेणिर्वेणीवकं वकं पुटभेदेऽम्बुनिर्गमे । ... परिवाह-परीवाही नाल-नादौ प्रनालिका ॥ १०६ ॥ प्रणालः प्रणालं तोयमार्गे सरणिः सारणी। कुल्यायां, सिकतायां तु वालुका वालिकापि च॥१०७॥ बिन्दौ पृषतिः पृषतः पृषत् , पङ्के तु कर्दमः। दमोऽपि, दीर्घिकायां तु वापिर्वापी च कूपके ॥१०८॥