________________
शब्दरत्नाकरेअलिञ्जरे तु मणिको माणिर्गर्या मन्थनिः । मन्थनी कलशी तद्वत् कलशिः, क्षुब्धके मथः ॥६५॥ मथिर्मन्थान-मन्थको मथापो मन्थ एव च ।। मन्था विशाख-वैशाखौ खजकी खजका खजा ॥६६॥ खजश्व खजको, मन्थविष्कम्भे कुटरस्तथा । कुटकः, शालाजिरे तु दन्त्यतालव्यपूर्वगः ॥ ६७ ॥ सरावो ना दृतिस्तत्र खल्लं खल्लश्च भाण्डिभित् । ध्रुवका धूवकाऽमत्रे पात्रं पात्री च पात्रकाः ॥ ६८ ॥ तद्विशालं स्थालं स्थाली, शैले तु धर-भूधरौ । भूध्रोऽद्रिश्च शद्रि-सद्री शिखी स्याच्छैखरोपि च ॥६९॥ क्रौञ्चे क्रुङ तथा कौजोपि, विन्ध्ये मेकल-मेखलौ । उज्जयन्ते रैवतको रैवतश्चक्रवालवत् ॥ ७० ॥ चक्रवाडो लोकालोकाचले, मेरूः सुमेरूवत् । स्वर्णाद्रावथ कन्दर्या कन्दरा कन्दरं दरिः ॥ ७१ ॥ कन्दरोपि दरो, दर्याः प्रस्थे प्रष्ठोपि सानुयुक् । स्नुर्ना तालव्यमूर्धन्यमध्यौ पाषाणयुग् दृषत् ॥७२॥ शिलाशिल्यौ ग्रावाकरे खनी खानी खनिस्तथा ।। निधितडागयोरप्येतौ द्वौ, धातौ तु गैरिकम् ॥ ७३ ॥ गवेरुकं च कस्सटी खटिनी च खटीयुता । कठिन्यां ताम्र ऊदम्बमुदुम्बरमुडुम्बरम् ॥ ७४ ॥ औदुम्बरं वरिष्ठं स्यात् त्रिकवर्गद्वितीययुक् । वंगे त्रपु त्रपुस्तपुढे सान्ते त्रीणि षण्ढके ॥ ७५ ॥