________________
चतुर्थः काण्डः ।
मञ्जूषायां तु मञ्जूषा पेटा-पटिक - पेटकाः । पेडा, व्यवहारिकायां तु वर्धनीवदवर्धनी ॥ ५४ ॥ बहुकरो बहुकरी बहुकरा तयेरिते ।
धूयादौ तु समः कार - कराववकरः स्मृतम् ॥ ५५ ॥ खण्डनभाण्डे तु भवेदुदूखलमुलूखलम् ।
५५
उरूखलं, किलिञ्जे तु कट: कटी कटं तथा ॥ ५६ ॥ मुसले मुषलोऽयोग्रमयोनिर्वशनिर्मिते । भाण्डे तु कण्डोलकः स्यात्कण्डोलः पिटकः पिटम् ॥५७॥ तितउः चालनी स्त्रीषण, सूर्पं तालव्यदन्त्ययुक् । प्रस्फोटनेऽन्तिकायां त्वश्मन्तमश्मन्तकान्वितम् ॥ ५८ ॥ अखन्तकमखन्तं च चुल्लि चुल्ल्यावुदः परे । हानं धानं ध्मानं च, पिठरस्त्रिषुचोखया ॥ ५९ ॥ उखः स्थालं स्थालिः स्थाली कुण्डकुण्डी च कुण्डिवत् । कुण्डी कुम्भिः कुम्भी घटे घटी कुटोऽस्त्रियां कुडः ॥६०॥ कलसः कलशः कुम्भस्त्रिष्वङ्गारकपात्रिका |
हसन्तिका हसन्ती च हसनी चाम्बरीषवत् ॥ ६१ ॥ अम्बारीषं, पिष्टपाकभृत्पृचीषमृजीषवत् ।
.
दय खजा खजाका च खजका खजिकापिच ॥ ६२ ॥ दारुहस्त के तु तर्द्धस्तर्दूरपि गलन्तिका । आडूरालूर्भवेदालुः कर्करीका च कर्करी ॥ ६३ ॥ करकोऽस्त्री लोहकर्णवत्पात्रे कटहः स्मृतः । कटाहः कर्परस्तद्वत् खर्परस्त्रितयं त्रिषु ॥ ६४ ॥