________________
शब्दरत्नाकरे--
सांपरायः संपरायकमग्रगमने मतम् ॥२९१।। नासीरस्त्रिषु, धाटौ तु धाट्यवस्कन्द इत्यपि । अभ्यवस्कन्दः, सौप्तिके त्ववापात् स्कन्द उच्यते॥२९२॥ पलायने तु संदावः समुत्प्रेभ्यश्च द्राववत् । द्रववद् विद्रवो, भग्ने पराजित-जितौ समौ ॥२९३॥ भूतः परापर्यभितो, गुप्तौ तु चार-चारको । बन्द्यां ग्रहश्च ग्रहकः प्रोपतो ग्रह इष्यते ॥ २९४ ॥ संन्यासिके तापसः स्यात् तपस्व्यपि च सूरतः । सूरथोऽपि च दाने द्वौ शान्त-श्रान्तौ जितेन्द्रिये ॥२९५॥ शुद्धकर्माऽवापाद् दानं महादाने प्रवारणम् ।। वरणं, विप्रे ब्रह्मा स्याद् ब्रह्माणो जाति-जन्म-जाः॥२९६॥ यग्राभ्यां, बटौ माणवो माणवकस्तथैव च । मौञ्जीबन्धे तूपापाद् नाय-नयावानय इत्यपि ॥२९॥ अग्नीन्धने स्यादाग्नीध्राग्नीध्यौ स्यातां जटाजटिः। सटायां, तपखिपीठे वृषी वृसी, कमण्डलौ ॥ २९८ ॥ कुण्डं कुण्डी कुण्डिका च, यजमाने तु याजकः। यष्टाऽथ सोमपेसोमा सोमात्पीती पीथी चनान्तगौ॥२९९॥ सर्ववेदः-सर्ववेदौ सान्ताऽदन्तौ तु याजके। सर्वखदक्षणेष्टेश्व, हुतौ होम नपुंसकम् ॥ ३०० ॥ नान्तं, होमो नरेऽदन्तो होत्रं, भूमिः परिष्कृता । वेदिर्वेदी च, निर्मन्थदारुणि त्वरणिईयोः ॥ ३०१॥ अरणी समिधि वेध एधः सान्तं तथेन्धनम् ।