________________
४०.
शब्दरत्नाकरें-* प्रतीहारः प्रतिहारो द्वाःस्थो द्वाःस्थितदर्शकः ॥ २४७ ।। द्वाःस्थितो दर्शकस्तद्वत् द्वाःस्थितादय॑ऽपि स्मृतः। सूदाध्यक्षे पुरोगुः स्यात् तथा पौरोगवोऽपि च ॥२४॥ सूपकारे सूप-सूदौ स्यादन्तःपुरके पुनः।। आन्तर्वेश्मिकयुगान्तर्वशिकोऽन्तःपुरे समौ ॥ २४९ ॥ अवरोधनावरोधौ भवेत्कञ्चुकिके पुनः । कञ्चुकी सौविदिल्लश्च सौविदः, स्थपतिस्तथा ॥२५॥ स्थापत्यः स्थापतीकश्व, रिपौ शत्रुः सशात्रवः । अभिमातिरभियातिरारातिश्चाऽप्यरातियुक् ॥ २५१ ॥ ऋष्व-ऋष्वौ घातुकेऽपि द्विषन् द्वेषी च द्विड्युतः। परेः पन्थक-पन्थिनौ, सख्यौ सूर्येऽपि चोच्यते ॥२५२॥ मित्रशब्दो द्वितकारः, सख्ये सौहार्द-सौहदे। मैत्र्यं मैत्री, हेरिके तु चरश्वारोऽवसर्ग्यवत् ॥ २५३ ॥
अपसर्पः, सान्त्वजे तु शाम तालव्य-दन्त्ययुक् । 'प्रावृते लञ्चया लश्च उपदोपप्रदानवत् ॥ २५४ ॥ १. शौर्ये शौण्डीर्य-शौण्डीरे नय-न्यायौ समञ्जसे । . भागधेयो भागधेयी भागोऽपि कारवत् करः ॥२५५॥ राजदेयेऽनीकिन्यां तु सेना सैन्यं चमूश्चमुः । सैन्यपृष्ठे प्रति-परेर्ग्रहः, केतौ तु केतनम् ॥ २५६ ॥ वैजयन्ती वैजयन्तो जयन्ती च ध्वजो ध्वजिः ।.. ध्वाजिश्व ध्वजपस्तद्वत्पताकाऽपि पटाकया ॥२५७।। ध्वज कूर्चक उच्चूडोच्चूलौ द्वौ चूड-चूलको। .. .