SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः । मर्मराले पर्पटपटः, पृथुके 'चेः पुटः । चिपिटश्चिपिटिका शर्करायामुपला सिता ॥ ४५ ॥ सितोपला मधुधूलौ खण्डो वर्गद्वितीयखः । फाणिते स्यात्तु मत्स्याडी मत्स्यण्डिच मत्स्यण्ड्यपि॥४६॥ मत्सण्डी खण्डतो योज्या शर्करा सर्करापि च । शिखरण्यां रसाला स्याद् रसिता मार्जितायुता ॥४७॥ मर्जिता, मुद्रादिरसे यूयूषस्त्रिषु जुषयुक् । दुग्धे गव्यं गोरसच रसोत्तमर से समे ॥ ४८ ॥ क्षीरस्य विकृतौ कूचिः कूचीका कूचिकान्विता । कूर्चिकापि किलाटी स्यात् किलाटा च किलाटयुक् ॥ ४९ ॥ द्रप्स-द्रप्स्ये दध्न्यघने, हविष्य - हविषी घृते । रसायन - गोरसौ द्वौ घोले, तक्रे त्वरिष्टयुक् ॥ ५० ॥ रिष्टमौदश्वितौदश्वित्के संस्कृत उदश्विति । पिच्छिले विजलं प्रोक्तं विजिलं विज्जलं विजम् ॥५१॥ विजेविलं विजिपिलमारनाले तु काञ्चिकम् । काञ्जिकं च सुवीराऽऽम्लं सौवीरं चाभितः षुतम् ॥५२॥ कुल्माषाभिषुतं चैव कुल्माषं चार्धराद्धके । माषादौ तु कुल्माषः स्यात् कुल्मासश्चाप्युपस्करे ॥ ५३ ॥ दन्त्य-तालव्य-मूर्द्धन्यमध्यः स्याद् द्वेषवारकः । तिन्तिडीक-तन्तिडीके चुक्रे पक्षयपि स्मृते ॥५४॥ .२१ .१ चिपुट इत्यर्थः । २ खण्डशर्करा, खण्डसर्करा । ३ अभिरुम् । ४ अर्धपक्के माषादावित्यस्य विशेषणमिदम् ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy