________________
द्वितीयः काण्डः। यङ्लुगन्ते चर्करीतं चर्करितं, कलिन्दिका ॥१०॥ कडिन्दिका सर्वविद्या, निघण्टुर्नामसंग्रहे । निर्घण्टुश्च, जनश्रुतौ वदन्ती किंवदन्त्यपि ॥ १०४ ॥ किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्त्तिके । अभिधायां नामधेयं नामाख्याऽभिख्ययाऽऽह्वयः ॥१०॥ आह्वा, हूतौ तु हक्कार-कङ्कारी, शपथे शपः। शपनं, प्रियबाहुल्ये चटु चाटु, यथास्थिते ॥ १०६॥ तथ्यं यथातथं सम्यक् समीचीनं च, रूक्षके। .. निष्ठुरं तृतीयवर्गद्वितीययुगवर्णने ॥ १०७ ॥ निष्पर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् । गर्हणा गर्हणं ग), रतशापे तु क्षारणा ॥ १०८ ॥ आक्षारणा क्षारणं च क्षरणा, मङ्गलार्थने । आशीराशषया चोभे उशत्यशुभवाचि तु ॥१०९॥ रुशती रुषती सर्वे त्रिलिङ्गा वाच्यलिङ्गतः। आज्ञायां स्याद् निरौनिभ्यो देशोऽथाङ्गीकृतौ पुनः॥११॥ संध्या स्यात् संधया साकं संप्रत्याभ्यः परः श्रवः । वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्तनम् ॥१११॥ नाट्यं नटनमङ्गविक्षेपेऽङ्गाद् हारि-हारको । आतोये वाद्यं वादिनं तूरं तूर्य च, वल्लकी ॥११२॥ तन्त्रीस्तन्त्रिश्च गन्धर्वे ज्युकारस्तुम्बुरुः स्मृतः।
१ निर्वादः, परिवादः, अपवादश्चेत्यर्थः। २ निर्देशः, आदेशः, निदेशश्चेत्यर्थः । ३ संश्रवः, प्रतिश्रवः, आश्रवश्वेत्यर्थः।