________________
शब्दरत्नाकरें
रोची रुक् शुचियुक् शोचिर्भा -भासौ भाः प्रभा विभा । विट् - विषी प्रश्नि- पृष्णी च धृष्णिरभीश्वभीषुकौ ॥ १० ॥ रोचिः शोचिरिसन्तौ द्वौ, मयूखो ह्याद्यवर्ग्यखः । प्रकाशे द्योत उद्द्योतः, सान्तो ऽदन्तो महो महः॥ ११॥ धाम नान्तमदन्तं च, ताविषं तविषं तथा । restart विधौ राजा राजराजश्च चन्दिरः ॥ १२ ॥ चन्द्र चन्दौ चन्द्रमसा मा विकुस्र - विकस्रकौ । विक्रस्रः सोम-सोमानौ यज्ञपेयरसेऽपि च ॥ १३ ॥ लाञ्छने लक्ष्मणं लक्ष्म लक्षणं, चन्दिरातपे । चन्द्रिका चन्द्रमाऽपि स्यात्, मण्डले मण्डली मता ॥ १४ ॥ नक्षत्रे तारका तारा निरिकाराऽत्र तारका । अश्वयुज्याश्वकिनी चाश्विनी स्युः कृत्यका बहौ ॥ १५॥ बहुलाश्च मृगशीर्षे मृगमार्गों मृगाच्छिरः । मृगशिराऽपि शीर्षस्थास्तारकास्तस्य विल्वलाः ॥१६॥ इन्त्रका मित्रदेवायामनुराधाऽनुराधिका । तृतीयवर्गद्वितीययुग् ज्येष्ठा मूल आश्रयः ॥ १७ ॥ तालव्यदन्त्ययोराप्यामषाढा हस्वपूर्विका ।
४
श्रविष्ठा च धनिष्ठापि त्रिकवर्गद्वितीययुक् ॥ १८ ॥ तद्वत्प्रोष्ठपदा लग्नत्रिभागे तु दृकाणवत् । द्रिक देक्काण- टक्काणाः, बुधे चान्द्रमसायनिः ॥ १९ ॥ चान्द्रमसायनश्चापि गुरौ गीर्पति - गीःपती । गीपति - गीष्पती रेफ - विसर्ग- गजकुम्भ-षाः ॥ २० ॥