________________
द्वितीयः काण्डः ।
अथ द्वितीयः काण्डः ।
"
स्वर्गे स्वस्त्रिदिवोऽस्त्री घुर्दीदिविर्दिदिविर्दिविः । धो दिवौ दिवमित्युक्तं त्रिविष्टप- त्रिपिष्टपे ॥ १ ॥ तात्तातो विषस्तविशं विहेलिम - विशेलिमौ । सुरे दिवोका दिवौकस्तौ विहङ्गेऽपि दैवतः ॥ २॥ देवताऽऽदित्याऽऽदितेयौ, सुधाऽभिनवदुग्धयोः । पीयूषमपि पेयूषं, व्यन्तरा वानमन्तराः ॥ ३ ॥ असंयुक्ततकारः स्याद् वेतालो व्यन्तरान्तरे । मार्तण्ड-मार्ताण्डौ मार्तण्डोऽर्क एतश ऐतशः ॥ ४ ॥ तुविर्भुविश्व द्वौ सान्तौ तपनस्तापनो भगः । भर्गो हरिर्हरिद्भानु-भानू पेरुश्च पारुवत् ॥ ५ ॥ भासन्तो भासयन्तोऽगो नगवत् तरु- शैलयोः । भुजगेऽप्यंशुराशुभ्र महिरो मिहिरस्तथा ॥ ६ ॥ मुहिरो मुदिरस्तद्वद् मुचिरः सहुरिस्तथा । मुहुरि: सृणि-सरणी अव्यवी स्योन -स्यूनकौ ॥ ७ ॥ प्रद्योतनो द्योतनश्च वृषाकपि कपी अरुः । अरूषों रुषज-रूषौ दिवि द्युभ्यां परो मणिः ॥ ८ ॥ सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः । कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः ॥९॥
.१ तकारात् ताशब्दाच्च परो विषः, तविषः, ताविषंश्चेत्यर्थः ।
·
m
.