________________
प्रस्तावना।
'शब्दरत्नाकर' इति स्वाख्यां सत्यापयतोऽस्य श्रीशब्दरत्नाकरको. शस्य निर्मातारः, शब्दशास्त्रनिष्णाताः, सर्वमपि शब्दभेदं संविदानाः, साधुसुन्दराः, 'वाचनाचार्य' इति पदप्रभूषिताः श्रीसाधुसुन्दरगणयः कीदृशाः, ?, कदा किं प्रतिष्ठापयामासुः ?, इति प्रश्नपरम्परापरायणान् त एवावबोधयन्ति निजनिर्मितधातुरत्नाकरप्रशस्तिप्रान्तभागेन- " व्योमसिद्धिरसक्षोणी(१६८०)मितेऽब्दे विवृतिः कृता क्रियाकल्पलतानाम्नी शुभे दीपालिकादिने" इति
ते चानेन पूर्वार्धश्लोकेन स्वं धातुरत्नाकरविवृतिकतारं सप्तदशशताब्दीमध्यगतं प्राचीकटन् । ततश्च स्पष्ट एवावसीयतेऽमीषां विज्ञानां सप्तदशशताब्दयांः प्रत्तासमय इति ।
ते च साधुकीर्तीनां साधुकीर्तिनामधेयानां पाठकप्रवराणां पण्डितरूपा अन्तेवासिनः, लघुभ्रातरश्च साधुकीर्तिविनेयावतंसानां श्रीविमलतिलकानामित्यपि तस्मादेव धातुरत्नाकरादवबुध्यते । निजवंशवृक्षप्रशंसोल्लेखे ते एवोलिखन्ति धातुरत्नाकरे।
आदौ
"दुर्वादिमत्तद्विपकेसरिभ्यो विद्यावशावल्लभवल्लभेभ्यः। . श्रीसाधुकीयोहयपाठकेभ्यो नमामि मदीक्षकशिक्षकेभ्यः" इति। .. अन्ते तु"शास्त्राध्यापनसत्रसद्म नियतं यैर्मण्डितं भूतले __ पायं पायमपायदोषविकलं विद्यारसं पूरुषाः । आघ्राता इव नापरत्र विदधुस्तत्मार्थनं वाग्मिनां
शृङ्गारोपमसाधुकीर्तिगणयः श्रीपाठका जज्ञिरे । तच्छिष्योऽस्ति च साधुसुन्दर इति ख्यातोऽद्वितीयो भुवि
तेनैषा विवृतिः कृता मतिमतां प्रीतिपदा सादरम् । स्वोपज्ञोत्तमधातुपाठविलसत्सद्धातुरत्नाकर
ग्रन्थस्यास्य विशिष्टशाब्दिकमतान्यालोक्य संक्षेपतः।इति । तत्रैव च निजगुरुगुरुबन्धुत्वेन श्रीविमलतिलकं स्तुवन्ति ते"विमलतिलकनामा तद्विनेयेषु मुख्यः
स्वगुरुपरमभक्तश्चारुचारित्रयुक्तः । इह हि विजयतेऽसौ ज्ञातसिद्धान्तयुक्तिः । -----सततमधिकमस्मद्भक्तिभावं दधानः" ॥ इममेवार्थ तेषामुक्तिरत्नाकरग्रन्थोऽपि गुढयति