________________
मल्लिनाथमहाकाव्ये
पवित्रं वन्द्यम च सर्वमेवाऽर्हतां शुचि ॥५७७॥ चितास्थाने प्रभोः स्तूपमकुर्वत दिवौकसः । नानारत्नमयं रत्नाचलशृङ्गमहोदयम् ।। ५७८ ।। निर्वाणमहिमामेवं कृत्वा मल्लिजिनेशितुः । ययुर्नन्दीश्वरद्वीपे कर्तुमष्टाद्विकोत्सवम् ||५७९ ।। गत्वा स्वमथ स्थानं तन्माणवस्तम्भमूर्धसु । स्वामिदंष्ट्रांन्यधुः शक्रा भक्ति मूर्त्तामिव प्रभोः ५८० ॥ कौमारव्रतपर्याय आयुर्मल्लिजिनेशितुः । वर्षाणां पञ्चपञ्चाशत् सहस्राण्यभवन् प्रभोः ॥ ५८१ ॥ अरनाथस्य निर्वाणाच्छ्रीमल्लिजिननिर्वृतिः । कोटीसहस्त्रे वर्षाणां समतिक्रान्तवत्यभूत् ||५८२ | चरित्रं श्रीमल्लेः श्रवणयुगपीयूषसरसी रसीभूतात्मानो विनयविनता ये भवभृतः । विगाहन्ते सर्व सकलकमलोद्भूतिजनकं
भवेत् तेषां सत्यं निजनिजमनश्चिन्तितमिदम् ॥ ५८३ ॥ इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिखा मिचरिते महाकाव्ये विनयाङ्के आस्तिकनृप - चित्रकुम्भ-नरदेवपाल-गोपाल-यज्ञदत्त-चिलातीपुत्र- चण्डरुद्राचार्य शिष्य- कुलध्वजमहर्षिकथानकगर्भितो निर्वाणव्यावर्णनो नामाष्टमः सर्गः ।
३३६