________________
मल्लिनाथमहाकाव्येआरूढः पञ्चमी धारामुदृढः प्रौढविक्रमः । जवं चकार चतुरं वाजी काजजितानिलः ।। ३४ ।। स्फुरत्खुरपुटोड्डीनरजःसङ्गमपि त्यजन् । . अङ्गमालिन्यभीत्येव रभसा नभसि व्रजन् ।। ३५॥ सरित्पुरगिरिग्रामसगुल्लङ्घनजाविकः । जगाम काननं कोडत्पश्चाननभयानकम् ॥ ३६ ॥ रत्नचन्द्रे समुत्तीर्णे तत्पृष्ठाब्यसनादिव । चित्रमेकोऽपि स प्राप पश्चत्वं दूरलङ्घनात् ॥३७॥ क सा राज्यस्थितिः कैषा महावनविभीषिका । क च बन्दिजनोल्लापः क चेदं व्याघ्रबृत्कृतम् ॥३८॥ अथवा क्षीणपुण्यत्वादित्थं सम्पद्यतां मम । नहि त्यक्ष्यामि धीरत्वकङ्कटं सङ्कटे स्फुटम् ॥ ३९ ।। इत्यं विचार्य सद्धैर्यपरिच्छदपरावृतः । चचाल पादचारेण महारण्ये नृपाङ्गजः ॥४०॥ हा तात ! तात हा ! भ्रातर्हा भ्रातर्भुवनोत्तम । खण्डशः खड्गयष्टयाऽहं क्रिये सूरणकन्दवत् ।। ४१ ॥ नेयं वीरप्रसूः क्षोणी नापि संक्रन्दनादयः । लोकपाला यथार्थाख्या हन्ये यदबला बलात् ॥४२॥ रत्नचन्द्र ! गतः कापि ममाभाग्यैर्भवानपि । यन्मां व्यसनमापन्नां न रक्षसि मृगीमिव ॥ ४३ ॥ सर्वज्ञेनेव दैवज्ञ ! यत्त्वयाऽऽख्यायि मे पितुः ।। सुप्तप्रलपितं तत्कि किं वा ते मतिविभ्रमः ॥ ४४ ॥ सुदतीं रुदतीमेकामित्थं स करुणस्वरैः। रोदयन्तीमरण्यानी प्रतिशब्दैः सखीमिव ॥४५॥ श्रुत्वा भूमीपतेः सूनुर्निदध्याविति मानसे । (१) हय इत्यपि ।