________________
... षष्ठः सर्गः।
१६७
ददौ नैषधये भीमभूमीशः सिन्धुरादिकम् ॥ ८६ ।। वधूवरौ नवोढौ तौ सकङ्कणकराम्बुजौ। .. गृहबिम्बान्यवन्दतां भवद्धवलमङ्गलौ ॥ ८७॥ भीमः सपुत्रं निषधं समान्याऽथ विसृष्टवान् । प्रयाणकानि कतिचित् समागत्य स्थितः स्वयम् ।।८८॥ यान्तीमनुनलं भैमी पुष्पदन्त्यन्वशादिति । ध्वजेव वंशं हे वत्से ! मा त्याक्षीर्व्यसने पतिम् ॥९९।। मातृशिक्षां गृहीत्वेति दवदन्तीमुपागताम् । न्यवेशयद् रथक्रोडे नलः क्रोडेऽपि च प्रियाम् ॥१०॥ ततश्च कोशलाधीशो मार्गेऽखण्डप्रयाणकैः । नव्यैः काव्यैरिव कविः शास्त्रवाऽतिगच्छति ॥९१॥ प्रयाणं कुर्वतस्तस्य ततोऽस्तमगमद् रविः । ब्रह्माण्डं तमसाऽपूरि तद् दृष्ट्वोचे नलः प्रियाम् ॥९२॥ क्षणं देवि प्रबुध्य त्वं तिलकं प्रकटीकुरु । परिमार्य ललाटं सा दीपवत् तमदीपयत् ॥ ९३ ॥ निर्विघ्नं तेजसा तेन चचाल सकलं बलम् । नलः पुरःस्थितं कायोत्सर्गिणं मुनिमैक्षत ॥९४ ॥ उवाच निषधं नाथ ! दृश्यतां वन्द्यतां मुनिः। अयं च घृष्टो मत्तेनेभेन यत्कलितोऽलिभिः ॥९५॥ न चालितः परं ध्यानात् तेन मत्तेन दन्तिना। ततः सपुत्रो निषधः श्रद्धया तं न्यसेवत ॥९६॥ नलश्च दवदन्ती च निषधः कूबरोऽपि च । नन्वा नत्वा च निरुपद्रवं कृत्वा मुनिं ययुः ॥९७ ॥ कोशलायां समाजग्मुर्महेन च महीयसा । दवदन्त्यालोक्यमानचैत्यायां हृष्टचेतसा ॥ ९८ ॥ कदाचिद् गीतनृत्ताभ्यां जलकेल्या कदाचन । कदापि दोलाखेलाभिः कदाचिद् द्यूतकर्मणा ॥९९॥