________________
१६६
मल्लिनाथमहाकाव्येमुकुटेशाभिधो भूपः कुसुमायुधनन्दनः । उपेव पत्नी भवितुं चेदस्येच्छसि तद् वृणु ॥ ७३ ॥ जयकेशरिपुत्रोऽयं शशलक्ष्मा क्षमापतिः। किमस्य रोहिणीव त्वं पत्नीत्वं प्रतिपद्यसे ? ॥७४॥ चम्पाधिपो भोगवंशो धरणेन्द्रनृपात्मजः । सुबाहुर्बाहुमस्य त्वं गृहाण यदि रोचते ॥ ७५ ॥ दधिपर्णनरेन्द्रोऽयं सुंसुमारपुरेश्वरः । कृशाङ्गि ! स्वदृशा पश्य यद्याकर्षति ते मनः ॥७६॥ कोशलाधिपतिश्वैष निषधोऽरिनिषेधकः । वृषभस्वामिकुलधुर्वृषभो विदितोऽस्ति ते ॥ ७७ ॥ तनयः सनयश्चास्य नलः प्रबलदोर्बलः। उन्नतोऽपि विनीतात्मा तवास्त्वभिमतः शुभे! ॥७८॥ दवदन्त्यपि तत्कालं माला नलगलेऽक्षिपत् ।। अहो ! सुष्ठु वृतं सुष्ठु वृतमित्यभवद् ध्वनिः ॥७९॥ कृष्णराजः समाकृष्टखडोऽथ नलमाक्षिपत् । तं नलोऽपि तथाऽवादीदुचितं क्षत्रियेष्वदः ॥ ८० ॥ द्वयोरपि ततोऽनीकं संवर्मितमभूत् तदा । .. दवदन्ती ततः सत्यश्रावणामीदृशीं व्यधात् ॥ ८१॥ अर्हन् देवो गुरुः साधुश्चेद् मे, तत्सैन्ययोर्द्वयोः । क्षेमोऽस्तु विजयी चास्तु नलः परबलं द्विषन् ॥८२॥ तद्वाक्यात् कृष्णराजस्य करात् खड़मथाऽपतत् ।। स ननाम नलं मूनों चिरेणाऽऽगतभृत्यवत् ॥८३॥ . उवाच च विनीताङ्गो. मन्तुमेकं क्षमस्व मे ।। तं संभाष्य नलोऽमुश्चद् भीमोऽपि मुदितोऽज़नि।।८४॥ अन्यान् संभाष्य भूमीशान् भीमो व्यसृजदञ्जसा । पाणिग्रहोत्सवं चक्रे दवदन्त्या नलस्य च ॥८५ ॥ तद्विवाहोत्सवे वृत्ते हस्तमोचनपर्वणि ।