________________
पञ्चमः सर्गः।
१५१ अथ जालकपाटानि तीर्थेश उदघाटयत् ।' एतेऽभ्यागत्य सर्वेऽपि प्रमोदाश्रुजलाविलाः ॥२१२॥ प्रबोधोन्मुक्तकालुग्या शारदीन घनाइव । भगवन्तं प्रणम्येदमाख्यन् षडपि भक्तितः ॥२१३।। स्मरामः प्राग्भवे पूज्यपादाः ! सप्ताऽपि सत्तपः । अकृष्महि चतुर्थादि कर्मधर्मघनोदयम् ॥ २१४ ।। बोधिता अधुना स्वामिपादैर्देशनयाऽनया। आदिशन्तु विधेयं यद्भवन्तो गुरवो हि नः ॥२१५॥ अथोवाच जगनाथः पाथःपूर्णघनस्वनः। अहं संसारकान्तारं विमुच्यानिष्टगेहवत् ॥ २१६ ।। मुक्तिसंवननं कर्मनिनाशनकृतोद्यमम् । सत्तपस्यां प्रहीष्यामि भविष्यामि च निर्ममः॥२१७॥
. (युग्मम् ) खामिन्नमी वयं तावद् युष्मन्मार्गप्रवर्तनम् । करिष्यामो गुरोर्मार्गे प्रवृत्तानां शुभं नृणाम् ॥२१८॥ इत्युदीर्य पुनर्नाथं नमस्कृत्य शुभाशयाः । षडपि क्ष्माभुजोऽगच्छन् खां पुरी खबलैः सह॥२१९॥ इतः पञ्चमकल्पस्य विमानेऽरिष्टनामनि । लोकान्तिकानां देवानामासनानि चकम्पिरे ॥२२०॥ तत्कम्पादवधिज्ञानप्रयोगादपि ते सुराः । सारखतादयः सर्वेऽजानन् दीक्षाक्षणं प्रभोः॥२२१॥ एत्य श्रीमल्लिनाथाग्रे तेऽवोचन्निति भक्तितः । सर्वजगज्जीवहितं स्वामिन् ! तीर्थ प्रवर्तय ॥ २२२ ॥ खामी गार्हस्थ्यवासेऽपि वैराग्यैकनिकेतनम् । विज्ञप्तस्तैर्विशेषेण दीक्षायां सत्वरोऽजनि ॥ २२३ ॥ अथ वात्सरिकं दानं समारेभे जगत्पतिः । सर्वे येन महारम्भा दानपूर्वा महात्मनाम् ॥ २२४ ॥