________________
१३५
. पञ्चमः सर्गः। इमामन्वगमद् देवीं केतकीमिव षट्पदः ॥ ७॥ पुष्पमण्डपिकां नागप्रतिमामनुनिर्मिताम् । विलोक्य मुद्गरं पौष्पं चाऽवदद् नृपपुङ्गवः ॥ ८॥ सुबुद्धे ! सचिवाधीश ! त्वमस्मत्प्रेषणोत्सवैः । ईदृक्स्वरूपं स्त्रीरत्नं जात्यरत्नमिवोज्ज्वलम् ॥९॥ राज्ञां वेश्मनि कुत्रापि दक्ष ! वीक्षितवानसि । कौसुमं मुद्गरं बिभ्रमद्भमरधोरणीम् ॥१०॥ (युग्मम्) विहस्य सचिवाधीशः सुबुद्धियंगदद् नृपम् । त्वदादेशेन भूमीश ! गतोऽहं मिथिलां पुरीम् ॥११॥ कन्यकां कुम्भभूपस्य नेत्रसारङ्गवागुराम् । मनोऽध्वनीनविश्रामद्रुमच्छायासहोदरीम् ॥ १२ ॥ अनेकैर्लक्षणैः पुण्यैः पुण्यैरिव समन्विताम् । मल्लीमित्यहमद्राक्षमस्राक्षमपि संमदम् ॥ १३ ॥ तस्याः स्त्रीरत्नमुख्याया आयुर्ग्रन्थौ महीपते ।। विधीयते सकोऽप्युच्चैर्निस्सीमः पुष्पमुद्गरः॥ १४ ॥ तवैष पुरतो यस्य लक्षांशेनापि सर्वथा । . न भाति किन्तु विच्छायदर्पणत्वं दधात्यहो! ॥१५॥ यद्येकदापि श्रीमल्लेर्ददृशे रूपवैभवम् । तदा भूमिस्थितेनापि प्राप्यतेऽनिमिषस्थितिः ॥१६॥ मल्लेः प्रतिकृतिः स्वामिन् ! दर्पणेष्वेव दृश्यते । उपमानं महाम्भोधेर्महाम्भोधिर्निगद्यते ॥ १७ ॥ न मेरोरधिकः शैलो मानसाद् न परं सरः । नाकाशादधिकं किञ्चित् तद्रूपादधिकं नु किम् ॥१८॥ मल्लीरूपं न दृष्टं यैः स्फारतारैर्विलोचनैः । स मन्ये नररूपेण कूपमण्डूकसनिमः ॥ १९ ॥ सकर्णकर्णपीयूषं श्रुत्वेति प्रतिबुद्धिराट् । रोमाञ्चैरश्चितो देहे कदम्बः कुसुमैरिव ॥ २० ॥