________________
( २
)
श्रीमत्पूज्यरविप्रभाविकसत्पट्टक्षमालङ्कुतिः
साक्षादेष नरेन्द्र एव जयति श्रीमन्नरेन्द्रप्रभः ॥ ७॥ दुर्वारप्रतिवादिविन्ध्यशमकृञ्चान्द्रे कुले विश्रुतो
देवानन्द इति प्रसिद्धमहिमोद्दामा मुनिग्रामणीः । अष्टव्याकरणाम्बुधीन् निरवधीन् शब्दोर्मिमालाऽऽकुलान्
यः स्वव्याकरणप्रशस्तिचुलुकैश्चित्रं चकारोचकैः ॥८॥ तच्छिष्योऽजनि जागरूकमहिमा रत्नप्रभाख्यप्रभुः
पट्टे श्रीकनकप्रभः प्रतिमया वाचस्पतिमूर्विमान् । तत्पादाम्बुजचञ्चरीकचरितः प्रद्युम्नसूरिनव
प्रीतिः श्रीविनयेन्दुना तदखिलं चाशोधयद् बोधये ॥९॥ पूज्यश्रीरत्न (?) सिंहमूरिसुगुरोः श्रीमन्नरेन्द्रप्रभो
रादेशाद् विनयाङ्कपार्श्वचरितस्रष्टाशया (१)। गच्छोत्तंसरविप्रभाभिधगुरोः शिष्योऽल्पमेधा अपि
मूरिः श्रीविनयेन्दुरेष विदधे मल्लेश्चरित्रं नवम् ॥१०॥ क्षेत्रे भारतनामके जिनपतेर्यावत् परं शासनं
(?) शस्यमिदं वृषव्रजपरीपोषक्षम वर्धते । एतद् नीरदवृन्दसुन्दरतनोः श्रीमल्लितीर्थेशितुः प्रोदामं रसपूरचारुचरितं तावचिरं नन्दतात् ॥ ११ ॥
॥ इति प्रशस्तिः ॥
ANSHer
१ (?) एतचिह्नाङ्कितं यादृशमादर्शपुस्तके समुपलब्धं तादृशमेवाऽत्र न्यस्तम् , आसीचेयं प्रशस्तिरेकस्मिन्नेव पुस्तके ।