SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः । + ••:3:•<<< तमोपहारी सद्वृत्तो गच्छचन्द्रोऽभवद् भुवि । चित्रं न जलधी रागं यत्र चक्रे कदाचन ॥ १ ॥ तस्मिन्नभूत् शीलगणाभिधानः सूरिः समापूरितभव्यवाञ्छः । यत्पञ्चशाखः किल कल्पवृक्ष छायां नवीनां तनुते जनानाम् ॥ २ ॥ यत्पार्श्वं किल देवता त्रिभुवन स्वामिन्युपेता स्वयं पूर्वप्रीतितरङ्गितेव वचसा बदैव कष्टेव च । सौभाग्यद्भुतवैभवो भवमहाम्भोराशि कुम्भोद्भवः श्रीमानत्र स मान तुङ्गगणभृन्नन्द्यादविद्यापहः ॥ ३ ॥ यस्योच्चैः परिपाकपेशलतरां तृप्तिं प्रदत्तेऽङ्गिनां व्याख्यापर्वणि भारती रसवती लावण्यपुण्या भृशम् । एतद् नूनमजीर्णमध्य विकलं यस्याः सुखं निस्तुषं श्रीमानेष रविप्रभः स विजयी स्तात् सूपकारः परः ॥४॥ विविधग्रन्थनिर्माणविरश्चिरुचिरो गुरुः । योऽभूद् रजोगुणो नैव नालीकस्थितिमान् कचित् ||५|| श्रीमदैवततुङ्गशैलशिखरे सुध्यानलीनायुषा स्वायुः कर्मतरुप्रपातत्रशतो लेभे गतिस्ताविषी । भव्यत्रातमनः कुरङ्गशमकृत् तत्पट्टभूषाकरो रामः श्रीनरसिंह सूरिरभवत् विद्यात्रयपिावनः ॥ ६ ॥ नित्यं यः समितौ रतः कलयते सद्गुप्तिशक्तित्रयसातत्यं व्रतपञ्चवल्लभलसङ्गन्धर्वगर्वोद्धरः । १ दैवी ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy