________________
मल्लिनाथमहाकाव्ये
११६
एकैकं तीर्थकृन्नामकर्मबन्धस्य कारणम् । सर्वैराराधितैरेभिस्तद् बबन्ध स संयमी ॥ २३४ ॥ पूर्वलक्षचतुरशीत्यायुष्को नृपसंयमी । पर्यन्तमात्मनो ज्ञात्वा व्यधादाराधनामिति ॥ २३५॥ अकालविनयाद्यैर्यो ज्ञानाचारेऽष्टरूपिणि ।
अतीचारः कृतस्तत्र स्याद् मिथ्या दुष्कृतं मम ॥ २३६ ॥ अष्टधादर्शनाssचारे भेदैर्निःशङ्कितादिभिः । योsaiचारः कृतस्तत्र भूयाद् मे दुष्कृतं खलु ॥ २३७॥ समितिभिः पञ्चभिश्च गुप्तिभिस्तिसृभिर्वृतम् ।
**** -2
पालितं यद् न चारित्रं तत्र मे दुष्कृतं तथा ॥ २३८ ॥ तपसि द्वादशभेदे बाह्याभ्यन्तरभेदतः । योsaiचारः कृतस्तत्र मिथ्या मे दुष्कृतं भवेत् ॥ २३९ ॥ निगृहितं बलं यच धर्मानुष्ठानकर्मसु ।
तमहं भावतो वीर्याचारं निन्दामि सर्वतः ॥ २४० ॥ सानां स्थावराणां च या हिंसा प्राणिनां कृता । क्रोधादिभिः कषायैश्च यदलीकं मयोदितम् ॥ २४१ ॥ यत् कापि भूरि वाऽल्पं च परद्रविणमादृतम् । तैरथं दिव्यमानुष्ये यन्मैथुनमकारि च ॥ २४२ ॥ लोभोद्रेकाद् मयाऽकारि बहुभेदपरिग्रहः । प्रत्यक्षं सर्वसिद्धानां सर्व निन्दामि तत् त्रिधा ||२४३ || ( युग्मम् ) प्राणिघातो मृषावादोऽदत्तादानं च मैथुनम् । परिग्रहस्तथा कोपो मानो माया च लोभकः ॥ २४४॥ रागो द्वेषो रत्यरत्याभ्याख्यानं कलहस्तथा । पैशुन्यं परिवादश्च माया सूनृतमेव च ॥ १४५ ॥ मिथ्यादर्शनशल्यं च भवसन्ततिकारणम् । अमून्यष्टादशाऽवद्यस्थानानि व्युत्सृजाम्यहम् ॥ २४६ ॥