________________
. तृतीयः सर्गः ।। ज्ञानोपयोगसातत्यं द्वादशाङ्गाऽऽगमस्य च । सूत्रार्थोभयभेदेन स्थानं ननु तदष्टमम् ॥ २२१ ॥ शङ्काविहीनं स्थैर्यादिसहितं दर्शनं स्मृतम् ।। शमादिलक्षणं यत्तु स्थानकं नवमं मतम् ॥ २२२ ॥ विनयो यश्चतुर्भेदो ज्ञानाद् दर्शनतोऽपि च । चारित्रादुपचाराच्च स्थानं तद् दशमं मतम् ॥ २२३ ॥ आवश्यकं भवेत् स्थानमेकादशमिदं पुनः । । इच्छादिदशधा या सा सामाचारी जिनोदिता॥२२४॥ शीलव्रतं विशुद्धं यद् नवगुप्तिनियन्त्रितम् । तत्पाल्यं निरतीचारं स्थानं तद् द्वादशं भवेत् ॥२२५।। त्रयोदशमिदं स्थानं क्षणे क्षणे लवे लवे । शुभध्यानस्य करणं प्रमादपरिवर्जनात् ।। २२६ ॥ तपो विधीयते शक्त्या बाह्याभ्यन्तरभेदतः। असमाधिपरित्यागात् स्थानमुक्तं चतुर्दशम् ॥२२७॥ त्यागोऽतिथिसंविभागः शुद्धानोदकदानतः। .. तपखिनां स्वयं शक्त्या स्थानं पञ्चदशं तु तत् ॥२२८॥ वैयावृत्त्यं तु गच्छस्य बालादिदशभेदतः। भक्तविश्रामणायैः स्यात् स्थानं षोडशकं किल ॥२२९।। समाधिः सर्वलोकस्य पीडादिकनिवारणात् । मनःसमाधिजननं स्थानं सप्तदशं भवेत् ॥ २३०॥ अपूर्वज्ञानग्रहणात् सूत्रार्थोभयभेदतः । अष्टादशमिदं स्थानं सर्वज्ञैः परिभाषितम् ॥ २३१॥ श्रुतभक्तिः पुस्तकानां लेखनादिषु कर्मसु । व्याख्याव्याख्यापनैरेकोनविंशं स्थानकं भवेत् ॥२३२॥ प्रभावनाप्रवचने विद्यावादनिमित्ततः। : शासनस्योनतेर्या स्यात् स्थानं विंशतिसंज्ञकम्॥२३३॥ 1 'भेदिनः' इत्यपि।