________________
७८
श्रीवर्धमानसुरिविरचितं [स. १.२१३-२२४]
तं श्लोकं संस्मरन्भिन्नं न मनः क्वचन व्यधात् ।। २१३ ।। ते तु दैन्यमुचः सैन्यभटाः सर्वे ऽपि गर्विताः । कुमाराय क्रुधावन्तो धावन्तों दधुरन्धताम् ।। २१४ ॥ ततः स्वमपि हस्ताग्रमपश्यन्तो ऽन्दृष्टयः । पुरो यत्रापि तत्रापि स्खलनादवलम्बते ।। २१५ ॥ भृशं विसंस्थां धीरा दधतः परितो गतिम् । अधा मिथोऽयुध्यन्त संमुखीनैर्द्विषद्धिया ॥ २१६ ॥ किं रे कन्यास्त्वया व्यूढा मूढेनेत्युद्धतोक्तिभिः । ताडितोऽश्मपुमान्कैश्चित्प्राप्तः स्मरसुरौकसि ।। २१७ ॥ तत्रावलम्बितं प्राप्य पाणिस्पर्शेन चामरम् । कुमारकेशबुद्धयान्ये ऽच्छिदन्दुर्वाक्यदुर्धराः ।। २१८॥ के sपि कोपाकुलाः प्राप्य प्रौढाश्मकरिणः करम् । चक्रपुर्दन्तदष्टोष्ठाः कुमारेन्द्रभुजभ्रमात् ।। २१९ ।। इत्यनेकविधोद्दामसंग्राममयकौतुकः ।
चमवारः कुमारस्य चकार नयनोत्सवम् ।। २२० ॥ एवं श्रुत्वा चमूचित्रमूचिवान्सचिवं नृपः । पुमानसाव सामान्यः सन्मान्यानीयतामिति ।। २२१ ॥ अथ गत्वा त्वरा वेशरा जिना राजवाजिना । नास्मिन्वीरे विरोद्धव्यमित्यूचे सचिवश्वमूम् ॥ २२२ ॥ ईदृग्मन्त्रिगिरा शान्तमनसः पृतनाजनाः । सद्यो हृद्यदृशः स्वस्मिन्मत्वा युद्धं ललज्जिरे ॥ २२३ ॥ सचिवस्तु विमुच्याश्वं गतः स्मरमरुद्गुहम् । अग्रे कुमारमारूढविनयां वाचमाचरत् ।। २२४ ॥ धीरचूडामणे वीर गम्भीरगुणनीरधे ।