________________
[स.२.२०१-२१२] वासुपूज्यचरितम्
तूर्णमेत्य भयापूर्णः क्ष्माभुजङ्गं व्यजिज्ञपत् ।। २०१ ॥ अस्ति विस्तीर्णदृक्पाततृणीकृतजगत्रयः । तत्र स्वामिन्पुमान् कोऽपि द्वादशार्कनिभप्रभः || २०२ ॥ रूपं निरुपमं तस्य निरूप्य निरुपाधिकम् ।
स्त्रीत्वाय स्पृहयत्येव देवानामपि मानसम् ॥ २०३ ॥ मन्ये तादृग्दृगुल्लासस्ता युक्तादृगाकृतिः । अपीन्द्रमनसा मान्यो म सामान्यो अस्ति को ऽप्यसौ । २०४ तदेकमपि खोदेवपतिष्यूँही अन्यहं नहिं । अमुं धर्तुं समर्थो ऽग्निकणं तृणगणो यथा ॥ २०५ ॥ इत्युक्तिविकटामर्षस्तत्कर्षणकृते नृपः । मैणीद्वीरम्सानन्यं सेनान्यं सेनया रयात् ।। २०६ ॥ अथो रथेभपत्त्यश्वसेनाभिर्नाभिवद्वृतः ।
तरसा सरसोत्तालचचाल करवालभृत् ।। २०७ ।। राज्ञा सैन्यं त्वयि त्रैषि कथिते ऽपि जनैरिति । तदा तस्य न रोमापि नरोत्तंसस्य कम्पितम् ॥ २०८ ॥ बिभ्रद्भिरधिकं दर्प कन्दर्पायतनं ततः । अवेष्टयत चमूशूरैः क्रूरैरात्मेव कर्मभिः ॥ २०९ ॥ उच्चनीचस्फुरच्छीषैः शूरैः शोणमुखै रुषा । कुमारो मुहुरालोकि कृकलासैरिवांशुमान् ।। २१० ॥ एवमालोक्य सेनानीर्गृह्यतां गृह्यतामयम् ।
७५.
इति कोपानलज्वालां वाग्माला मुदलालयत् ।। २११ ॥ इत्युक्त्या तस्य कल्पान्तवातवेगिनि धावति । वीरवारे कुमारेण मेरुणेव न चुक्षुभे ।। २१२ ।। स्थानत्यागे प्रियारागे भयभागे च तत्र सः ।