SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानमूरिविरचितं [स.२.१८९-२००] ता निकेतं गताः स्वापं कुमुदिन्य इवासदन् ॥ १८९ ॥ एष्यद्रविभयानिद्रा नलिनेभ्यः पलायिता । विशश्राम कुमारस्य तदा नेत्रारविन्दयोः ॥ १९० ॥ द्राग्दृष्टनष्टया स्पष्टं संध्यया सुधियो वपुः । सत्वरं गत्वरं मत्वा धर्मतत्त्वान्यधुस्तदा ॥ १९१ ॥ वीक्ष्यैव कुमुदे लक्ष्मी क्षणाक्षीणां विचक्षणाः । श्रियश्चलत्वं जानन्तो दानं तोषहृदो ददुः ॥ १९२ ॥ संयोगं विप्रयोगान्तं दृढयन् कोकदर्शनात् । सत्सु साधुजनः सम्यग्विदधे धर्मदेशनाम् ॥ १९३ ॥ सुप्तस्यापि समेति श्रीर्ममेव समये स्वयम् । तस्यै मा क्लिश्यतामब्जमितीवाख्यदलिस्वनैः ॥ १९४ ॥ पवित्रितधरित्रीकः पादन्यासैरिवांशुमान् ।। आकर्षत्तिमिराद्विश्वं दुःकृतादिव तीर्थकृत् ॥ १९५ ॥ अथ सुप्तां विवाहश्रीचिह्नां सौभाग्यमञ्जरीम् । वीक्ष्य क्षितिपतेराख्यत्कञ्चकी चकितस्तदा ॥ १९६ ॥ केनापि निशि कन्ये नौ व्यूढे इति पतिः क्षितेः । एत्य तत्र क्षणे मन्त्रिश्रेष्टिभ्यां व्यज्ञपि स्वयम् ॥ १९७॥ इहेदृग्निविडं केन विडम्बनमिदं कृतम् । इति कोपाकुले भूपे को ऽप्येत्य पुरुषो ऽवदत् ॥ १९८॥ स्वामिन् कश्चन कन्दपायतने ऽनुपमः पुमान् । हृद्यश्रीविद्यतेसद्यःपाणिग्रहणवेषभाक् ॥ १९९ ॥ इत्याकर्ण्य तलारक्षमिलारस क्रुधादिशत् । आगसां सागरो मङ्कस बद्दानीयतामिति ॥ २००॥ अथ गत्वा तलास्क्षस्तं दक्षो वीक्ष्य दोभृतम् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy