________________
स.९.१७७-१८८] वासुपूज्यचरितम् ।
भानुर्नुन्न इव प्राप प्रत्यग्गिरिशिरस्तटीम् ॥ १७७ ॥ तेषां हृदि तदोदामः कामतापः स को ऽप्यभूत् । यजितेनेव सूरेण गतं दूरेण लज्जया ॥ १७८ ॥ बिभ्रदभ्रंलिहीभावं संध्याभ्रपटलच्छलात् । तेषां भृशं निशारम्भे जजृम्भे रागसागरः ॥ १७९ ॥ तदङ्गज्वलितानङ्गदावपावकजन्मभिः । अपूरि भूरिभिधूमैरिव ध्वान्तभरैर्नभः ॥ १८० ॥ इति क्रमानिशीथिन्यां निशीथसमयस्पृशि । पौरेषु परितो निद्रामुद्रितेन्द्रियत्तिषु ॥ १८१ ॥ भूषिताभरणाः पाणिग्रहोपकरणान्विताः। तास्तिस्रो ऽपि ययुनिकेतनस्य निकेतनम्॥१८२॥युग्मम्।। आगमिष्यन्ति ता नो वा भविष्यति न वात्र सः। इत्याकुलहृदो ऽन्योन्यं ते ऽमिलन्संमदास्पदम् ।। १८३ ॥ तैर्हष्टैरथ तत्कालज्वालितज्वलनच्छलात् । दीप्यमानो बहिश्चक्रे हृदयादिरहो महान् ॥ १८४ ॥ भवाम्भोनिधिडिण्डीर रविभ्रमभृत्मभे । चीवरे पीवरप्रेमप्रकर्षास्ते ऽथ पर्यधुः ॥ १८५ ॥ अमन्दमोदैर्मदनफलान्यथ करेषु तैः । कन्दर्पलतिकाकन्दबन्धुराणि बबन्धिरे ॥ १८६ ॥ अथ ताः प्रथितोत्साहः करे जग्राह कन्यकाः। विप्रयोगपयोराशौ निमज्जन्तीपाङ्गजः॥ १८७ ॥ तेषां जिह्वासुधावल्लिपुष्पाण्यथ मिथः कथाः। जग्मुर्मधुमुचश्चारुवर्णाः कर्णावतंसताम् ॥ १८८ ॥ ततः प्रभातमिश्रायां तमिस्रायां निजं निजम् ।