________________
७४
श्रीवर्धमाननुरिविरचितं [स.२.१६५-१७६ ]
इत्याकुलहृदि क्ष्मापपुत्र्यां प्राह प्रियंवदा ॥ १६५ ॥ यत्त्वयोक्तं तदेवासीन्न देवि यदि मे हहि । तत्त्वत्सख्यनिदानाय प्रेयसे श्रेयसे शपे ।। १६६ ॥ इत्यस्या वचनस्यैव प्रतिशब्द इवाभवत् । शब्दस्तदा सुताराया वदनोदरकन्दरे ।। १६७ ॥ इत्थं मिथः कथासारसुधासारपरिप्लुतैः । मनोभिर्निमलैरेताः श्रीतनूजमपूजयन् ।। १६८ ।। अथागत्य वहिः कामस्तुतिप्रस्तुतिकैतवात् । इमाः कुमारमुद्दिश्य जगुर्मगुणां गिरम् ।। १६९ ॥ अस्मन्मनः स्थिरं नाथ यथा त्वयि तथा त्वया । मात्राधिप्रसादे स्थिरीभाव्यमहर्निशम् ।। १७० ॥ इत्युक्तियुक्तिभिस्तासां कुमारः स्वं व्यचारयत् । क्षिपायामपि तत्रैव प्रसादे स्थापितं कृती ।। १७१ ॥ तावेलुरथ चक्षूंषि क्षिपन्त्यः पृष्ठतो मुहुः । स्मराचचारुतादी पसत्ताद्यालोकनच्छलात् ।। १७२ ॥ दीप्तस्मरानलज्वालापकै रागरसैस्ततः ।
कुमारं चित्रवच्चित्रफलके न्यस्य ता ययुः ॥ १७३ ॥ अधिकं दधदौज्ज्वल्यं तापायैवाभवत्तदा ।
तासां मार हार कुमार व हृदि स्थितः || १७४ ॥ भक्ते saौ कामदः कामं काम इत्युक्तिभागथ । कुमाराय ददौ शेषान्मोदकान्देवपूजिका ।। १७५ ।। तदा कृततदाहारः कुमारः शुशुभे शुभः । पुष्पेषुशेषताम्बूलपुष्पावलिविलेपनैः ।। १७६ ।। अथ तस्य च तासां च दृक्मभादण्डमण्डलैः ।