________________
७२
श्रीवर्धमानमरिविरचितं [स.२.१४२-१५३] तत्परीवारनारीणां रवः सम्यग्निशाम्यते ॥ १४२ ॥ इत्यस्यां विकसदाचि साचिचञ्चंद्विलोचनाः । व्यलोक्यन्त कुमारेण योषितस्तोषितस्मराः ॥१४३ ॥ तिस्रो नरविमानस्थास्तासु प्रेक्ष्यन्त कन्यकाः। तेनानङ्गक्षितीशस्य प्रत्यक्षा इव शक्तयः ॥१४४॥ यनां मनोवनोत्सङ्गं ज्वलायन्कनकोज्ज्वलः। ..... चक्राम कामदावामिरिवैष स्त्रीजनः शनैः॥ १४५॥ दीपयद्भिसन्दोहहृदि मोहमयीं निशाम् ।.... भासमाना निशानाथसमानांशुभिराननैः ॥ १४६ ।। विवेककुसुमे लीनं सतां भृङ्गायितं मनः । कर्षद्भिनयनाम्भोजभूषयन्तीर्भवार्णवम् ॥ १४७ ।। मन्दयद्भिर्मुनीन्द्राणामपि जात्युज्ज्वलं यशः। शरीरधामभिः कामदीपिकाभिरिवाद्भूताः ॥ १४८।। तिस्रो ऽपि शनकैः कन्याः समीपं समुपेयुषीः। ददर्श च कुमारस्ता मारस्य च वशं गतः ॥ १४९ ॥
चतुर्भिः कलापकम् ॥ तं च चञ्चत्प्रभाचक्रं नरशक्रं निरीक्ष्य ताः । मिथो ऽपि वचनं चारुस्मितसूचितमूचिरे ॥ १५० ॥ अस्मद्भक्तिगुणक्रीतः प्रीतः श्रीतनयः किमु । प्रासादानिर्गतो मार्गत्यस्मान्मार्गमयं स्वयम् ॥ १५१ ।। कर्तुं कश्चिदसौ कामसेवां देवाग्रिमः किमु । अभ्ययावल्लभालाभलोभलोलुभधीरिह ॥ १५२ ॥ अस्मभ्यं वा वरं दातुकामः कामः कमप्यमुम् । स्वतो ऽप्याधिकधामानमानयन्मानवं नवम् ॥ १५३ ।।