________________
[स.२.१३०-१४१] वासुपूज्यचरितम्
इति ध्यानवशादेव देवपूजिकया रयात् ॥ १३० ॥ आनीय शुचिपानीयकरकं नरकुञ्जरः । सफलीक्रियतां वीर नीरमित्यभ्यधायि सः॥१३१॥युग्मम्।। ता माधुरीधुरीणाः स वनरीणः पपावपः । प्रीतो भवभ्रमिश्रान्त इव तीर्थेशदेशनाः ॥ १३२ ॥ तदा संहर्षवाचालपिकीजालकुहूपमम् । रवं श्रुत्वा किमत्रेति तत्रेमां पृच्छति स्म सः॥ १३३ ॥ सा जगौ राजगौराणां यशसां विनिवेशनम् । नृपः कृप इतीहास्ति रिपुहास्तिककेसरी ॥ १३४ ॥ तस्य कान्त्यधिकन्यासा कन्या सारङ्गशावदृक् । सौभाग्यमज्जरीत्यस्ति सौभाग्यतरुमञ्जरी ॥१३५॥ मधा सुधाभुजां चक्षुरनिमेषत्वभूरभूत् । सा रम्यरूपपीयूषकूपिका न न्यरूपि यैः ॥ १३६ ॥ सर्वस्वं रूपपुण्यस्य कन्यारत्नमिदं महत् । बाल्येन यामिकेनेव यौवनायार्पितं यतः ॥ १३७ ॥ धीराख्यमन्त्रिधन्याख्यश्रेष्ठिकन्ये शुभे उभे । तस्याः सख्यौ कलाहृये विद्यते तुल्ययौवने ॥ १३८ ॥ ध्यायनराजसुतारूपे न्यायं घोणाक्षरं विधिः । शिल्पिसिद्धिपरीक्षार्थमिव ते व्यधिताद्भुते ॥ १३९ ॥ प्रियंवदासुताराख्ये सख्यौ ते सर्वकर्मसु । तां कदाचिन्न मुञ्चते रतिकान्ती इव श्रियम् ॥ १४०॥ त्रैलोक्यरमणीरूपसम्पदामिव देवताः । तिस्रो ऽपि कौशलं प्रापुः सकलासु कलासु ताः ॥१४॥ श्रीतनूजस्य पूजार्थमायान्त्यन्वहमत्र ताः ।