________________
७०
श्रीवर्धमानमारविरचितं [स.२.११८-१२९] तमर्थं तदसाध्ये ऽपि साधकं कः सुधीदिशेत् ॥ ११८ ।। अज्ञानकूपश्चिद्रूपैरथे एवोपदिश्यते । अशक्यं ऋष्टुमात्मानमत्र कस्तृष्णया क्षिपेत् ॥ ११९ ॥ निग्रन्थो ऽपि विरक्तो ऽपि निर्गुणो ऽपि यतिः सताम् । सेव्यः स्यायेन तज्ज्ञानं यतन्ते ऽर्जयितुं बुधाः १२० ॥ इत्यनादरणीयैः स्वैरसंख्यैरपि गृह्यते । सतामादरणीयशेज्ज्ञानलेमो पि लभ्यते ।। १२१ म एवमुत्तरमुद्दामं ददाने नन्दने नृपः। कामं कामपि नोवाच वाचं रोषातिरूक्षक् ॥ १२२ ।। अथोत्तस्थौ कुमारौ ऽयं भूवल्लभसभान्तरात् । देशान्तरगतिध्यानतत्परस्तत्पराभवात् ॥ १२३ ॥ गुप्तः सुप्तं जनं मुक्त्वा पुरान्निशि विनिःसृतः। कुमारो वारिजव्यूहमिव व्योम्नो विभाविभुः ॥ १२४ ।। खुरलीखेलनाभ्यासादजातक्रमणश्रमः । अलं चलनलविष्ट महीमेष महीयसीम् ॥ १२५॥ श्वापदाः स्वापकाले ऽपि महारण्ये महस्विनः । ज्वलदग्निधिया नासन्नासन्नास्तस्य कुत्रचित् ॥ १२६ ।। ईदृग्नरा न रामत्वं वहन्ते को ऽप्ययं सुरः। हेलया खेलतीत्येनं तस्करा न पराभवन् ॥ १२७ ।। इति सत्त्ववतां धुर्यस्तुर्ये ऽहनि नृपाङ्गजः। धराहारो निराहारः श्रावस्ती नगरीमगात् ॥ १२८ ॥ मध्यन्दिने दिनेशस्य कान्तिभिः क्लान्तिमागतः। . श्रान्तस्तत्र विशश्राम कामस्यायतने ततः ॥ १२९ ।। को ऽप्युज्ज्वलज्वलद्धामा सामान्यो न पुमानयम्।