________________
[स.२.१०६ - ११७] वासुपूज्यचरितम्
६९
अवाच्यत चमत्कुर्वच्चित्तो वित्तोच्चयव्ययः ।। १०६ ॥ अथ क्रोधादिलाधारः कुमारमिदमचिवान् । विभवं विभुताप्राणान्मुधा मुग्ध किमुज्झसि ॥ १०७ ॥ आकरः परमः काव्यमणीनामनणीयसाम् । न स्यात्कशिपुमात्रस्य दानतः कानतः कविः || १०८॥ तत्किमेष तदुन्मेषमात्रगात्रव्यवस्थितिः ।
श्लोकः कनकलक्षस्य क्षयादङ्गीकृतस्त्वया ॥ १०९ ॥ वीजं लोकद्वयानन्दकारिणोः कामधर्मयोः । तृणवत्यजति व्यक्तबोधनः को धनव्रजम् ॥ ११० ॥ कलाविक्रमबुद्धीनामसाध्यमपि साधयेत् । यत्तद्वित्तमवज्ञानरूपे कूपे ऽपि कः क्षिपेत् ॥ १११ ॥ इविणैः कृपणो ऽप्येति सेव्यतां महतामपि । सेव्यः स्वर्णाद्रिरुन्नः किं सदैव न दैवतैः ।। ११२ ॥ गुणी रक्तो ऽपि मुच्येत क्षीण श्रीराश्रितैरपि । त्यजन्ति निशि निःश्रीकानलिनो नलिनोत्करान् ।। ११३ ॥ ध्यात्वेत्यर्जयितुं वित्तं न स्वं कः संशये क्षिपेत् । अबालस्त्वमिवोत्तालः क इव व्ययति श्रियम् ॥ ११४॥ अथ पुंस्कोकिलालापकल्पामयमकल्पयत् । कुमारः पुण्यकान्तार सहकार तरुर्गिरम् ।। ११५ ॥ शतशः सत्सु विद्वत्सु सत्काव्याभिगमः कुतः । वज्राकरे ऽपि सद्व निष्पुण्यैः कापि नाप्यते ।। ११६ ॥ श्रद्धा धर्मस्य कामस्य प्रीतिरुत्पत्तिकारणम् ।
।
लोला तत्कर्मणि श्रीस्तु दासी कस्तत्र रज्यति ।। ११७॥ लीलयैव कलासौर्यबुद्धयः साधयन्ति यम् ।