SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीवर्षमानसूरिविरचितं [स.२.९४-१०५] इत्यर्घोक्ते ऽश्रुधारालगेष न्यम्मुखो ऽभवत् ॥९४॥युग्मम्।। ततस्तं ग्रन्थिमुद्न्थ्य तदगुल्यग्रसंज्ञया । . कुमारः स्वयमादाय स्वकरे श्लोकपत्रिकाम् ॥ ९५ ॥ क्षणमात्रं ततो गात्रं स्तम्भपात्रं सृजन्नसौ । । किंचित्तदैव तत्स्वादमास्वायोचैरदोऽवदत् ॥ ९६ ॥युग्मम्।। द्रागिन्द्रियमयीं धीराः श्रवणे सृजत स्रजम् । अस्यैष श्लोकराजस्य प्रवेशो भवतीह यत् ॥ ९७ ॥ कार्यः सम्पदि नानन्दः पूर्वपुण्यभिदे हि सा। नैवापदि विषादव सा हि प्राक्पापपिष्टये ॥ ९८ ।। इति श्लोकामृतं पीत्वा प्रीत्या नृत्यभृतामिव । श्रुतीनामाश्रयैरापि कम्पः केषां न मौलिभिः॥ ९९ ॥ प्रीतिगौरवगौरेषु तदा पौरेषु दुःखिनम् ।। भूपभूरभ्यधाद्वाग्भिः सुबन्धुं मधुबन्धुभिः ॥ १०॥ नूनं त्वमसि मे पूर्वजन्मबन्धुर्यतस्त्वया । : सूक्तपीयूषपानस्य भागेनास्मि न वश्चितः ॥ १०१ ॥ धनं हरिकरिस्वर्णरत्नाद्यमिह माद्यति । विद्यते यत्र कुत्रापि स्पृहा तव गृहाण तत् ॥ १०२ ॥ इत्युदित्वा ससंमानममुं प्रैषीन्नृषाङ्गजः । दत्त्वा दुकूलकल्याणरत्नवारणधोरणीः ॥१०३ ॥ तन्वन्दानानि दीनेषु गुणलीनेषु विस्मितः । ततो भूशक्रभूश्चके श्लोकमावेशिकोत्सवम् ॥१०४॥ निर्गम्य दिनमुन्निद्रकवीन्द्रकुलकेलिभिः । असौ नक्तं नृदेवस्य सेवार्थ संमदी ययौ ॥१०५ ॥ क्षणे ऽत्र क्षोणिनेतारमेत्य व्ययनियोगिना ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy