________________
[स. २. ५९-६९] वासुपूज्यचरितम्
दृशाश्रुमिश्रया वीक्ष्य पूर्णेन्दुवदनां चिरम् । निद्राणां प्रेयसी पृष्ट्वा दैन्यगद्गदया गिरा ॥ ५९॥ दृश्यानि पुनरीशि केति साश्रु दृशं मुहुः । क्षिपन्मुखेषु सुप्तानां शिशूनां मुग्धकान्तिषु ॥ ६०॥ दुःखौघशम्बलो वाहुसहायः पदवाहनः । निशीथे निःसृतो मन्दं मन्दं मन्दिरतस्ततः ॥ ६१ ॥
. त्रिभिर्विशेषकम् ॥ अथाशु गतिचातुर्यात्पुर्या बहिरहं गतः । कुमार सुकुमारत्वान्मेदुरं खेदमासदम् ॥ ६२ ॥ अन्वेषद्भयो धनिभ्यो ऽथ भीतः प्रीतिं मृतौ वहन् । झम्पां दातुं पुरीलीलाशैलमौलिं गतः शनैः ॥ ६३ ॥ दुःखानि सह देहेन तूर्ण चूर्णयितुं माय । झम्पार्थ प्रस्थमारूढे कुतो ऽप्युक्तिरभूदिति ॥ ६४ ॥ मा मानवं भवं हन्त चिन्तामणिमिवार्भकः । परिक्षेपीर्मुधा मूढ प्रौढभाग्यभरार्जितम् ॥ ६५ ॥ इत्याकर्ण्य क्षिपन्दिक्षु चक्षुरप्रेक्ष्य कंचन । पुनर्जातो ऽस्मि पातोत्कस्तदा वागित्यभूत्युनः ॥६६॥ खेदभेदधिया प्राणप्रहाणं मुग्ध मा विधाः ॥ स्फीतशीतभिदे कल्पशालं ज्वालयतीह कः ॥६७।। इति श्रुत्वार्पयन्दिक्षु पञ्चषानि पदान्यहम् । कंचिदप्रेक्ष्य झम्पार्थी जातश्चाभूञ्च वागियम् ॥ ६८ ॥ दुःखद्वेषेण किं मूर्ख निजं त्यजसि जीवितम् । रेणुवरेण पीयूषच्छटां किरति कः क्षितौ ॥ ६९ ।। तामुक्तिमवगण्यैव तुगतः शैलशृङ्गतः ।