SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानसूरिविरचितं [स.२.४७-५८] .... .mmmmmmmmmwwwwwwwwww. मदीयाभाग्यमझाल्यदीपे तस्मिन्प्रदीपने । प्रपतद्भिः पतङ्गानां भगिरङ्गीकृता हयैः॥ ४७ ॥ पदार्थदाहदुःखोर्मिव्यथया मूर्छिते तदा । ओको विमुच्य लोको ऽभूत्पतिकारपरो मयि ॥ ४८ ।। यावञ्चिच्छेद मे मूर्छा जनस्तावद्विभावसुः । निन्ये निःशेषमप्येष वेश्म भस्मावशेषताम् ॥ ४९ ॥ समतो निःसृताशेषस्वजनं मुक्तमूर्छनम् । दग्धसर्वस्वमप्याहुर्मी जनाः पुण्यभाजनम् ॥ ५० ॥ तप्तं स्वर्णादिपिण्डस्थं देयमूल्यपदे तदा । एत्यं क्रयाणवाणिज्यकारिमिर्जगृहे गृहात् ।। ५१ ॥ लभ्याक्षरेषु दग्धेषु विदग्धैरधमर्णकैः । दत्तं नोत्तरमप्युच्चैर्याच्यमाने धनोचये ॥ ५२ ॥ निध्यायामि निधानानि यावत्तावदहिव्रजः। व्यलोक्यत खकाभाग्यलताकन्दलहन्दवत् ॥ ५३॥ दिगन्तगतवाणिज्यवित्तप्राप्तिप्रतीक्षणम् । धनिभ्यो धनमादाय स्वकुटुम्बमजीवयम् ।। ५४ ॥ किं तु मदिवसमान्ते मदभाग्यतमोमये । सर्वे मम वणिक्पुत्रा मार्गे गृह्यन्त तस्करैः ॥ ५५ ॥ मद्भाग्यविप्रयोगाग्निकीलालिव्याकुला इव । पोतभाजस्तु पाथोधौ ममज्जुर्मम सम्पदः ॥ ५६ ॥ एतद्वार्ताश्रुतेरार्तामन्तर्दृत्तिं वहन्नहम् । अवाप न रतिं कापि बिभ्यदिभ्यगणादृणी ॥ ५७ ॥ किं देयमुत्तमर्णानामुत्तरं याचतामिति । भृशं देशान्तरायाहमुत्साहमसृजं निशि ॥ ५८ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy