________________
[स. २. ३५-४६] वासुपूज्यचरितम्
अथ प्रीतिसुधासिन्धुचञ्चद्वीचीयितस्मितः। कुमारमुखमार्तण्डकोकः श्लोकवनो ऽभ्यधात् ॥ ३५ ॥ शृणु मुक्ताकरं श्रीमन्नस्ति श्रीमन्दिरं पुरी । श्रावस्तीति समाहूतपुरहूतपुरस्तुतिः ॥ ३६॥ स्वर्द्धर्मानमजानानः स्वस्य स्थान इव द्विपः। तस्यामृद्धः प्रसिद्धो ऽहं सुबन्धु मतो मतः ॥ ३७॥ हयहोषितवेषेण बिभ्राणां भूषणकणान् । ननत नर्तकीव श्रीरश्रमं मम वेश्मनि ॥ ३८ ॥ सद्भाग्यव्यवसायाभ्यां पक्षिणीभिर्विभूतिभिः । पारावारस्य पारे ऽपि चरन्तीभिरवधि मे ॥ ३९ ॥ नरं कंचन रडुं च नृपतिं च न वेमि तम् । अदधादधर्मणत्वं यो मे नो मेदिनीतले ॥ ४० ॥ चिरमित्यभवं भूप भवभूरिविभूतिभाक् ।। अहं दुहितदौहित्रपुत्रपौत्रालिमालितः ॥ ४१ ॥ एकदा क्षणदापुच्छे स्वप्ने ऽपश्यं वरस्त्रियम् । विभूषणगुणैर्भान्ती निर्यान्तीं निजमन्दिरात् ॥ ४२ ॥ यावद्धयायामि निद्रान्ते स्वान्ते दुःखप्रशान्तिकम् । नावन्मूर्तमिवाभाग्यं धूमो ऽभूद्विभवौकसि ॥ ४३ ॥ तत्कालमेव मे भाग्यभङ्गभङ्गिगरीयसाम् । तत्रोदभूदभाग्यानां प्रताप इव पावकः ॥ ४४ ॥ वित्तालिनिःस्पृहश्चित्तादुत्तीर्णखजनवजः। निःसृतो ऽहं तदागारात्संसारादिव निर्ममः ॥ ४५ ॥ तदा तु यद्यदाकृष्टं दह्यमानं धनं जनैः । छलिनस्तत्तदादाय पलायांचक्रिरे रयात् ॥ ४६॥