________________
श्रीवर्धमानमूरिविरचितं
[स.२.२३-३४]
इत्यस्य वचसाश्चयेवशंवदहृदस्तदा । अमिलनमलप्रज्ञाः प्रज्ञाः पुरपुरःसराः ॥ २३ ॥ ते भृशं तादृशश्लोकसमालोकसमुत्सुकाः। अमुं जगुः क गुप्तस्य मूल्यश्रीरस्तु वस्तुनः ॥ २४ ॥ अथायमभ्यधाल्लभ्या न सभ्याः कचिदीदृशाः । छझैव प्रस्तुतं वस्तुलब्धौ येषां धनं घनम् ॥ २५॥ आस्वादमात्रवित्रस्तरोगां रोगवते ऽर्थिने । स्वादं परीक्षितुं दत्ते विक्रेता कः सुधां मुधा ॥ २६ ॥ मूल्यं संसारसारस्य यद्वाच्यस्यैव याच्यते । श्लोकं दक्षाः परीक्षार्थ दर्शये तं कथं वृथा ॥ २७ ॥ भवद्भिर्विभवत्पर्निभाल्यैव विभाव्यते । अर्थः श्लोकस्य भोः कस्य विक्रयः क्रियतां मया ॥२८॥ इत्यनेन कृता कामं यद्विदा कोविदावलिः। अस्ति श्लोकावलोकार्थमुपायध्यायिनी चिरात् ॥ २९ ॥ इत्याकण्ये कुमारो ऽन्तःसमारोपितविस्मयः । सुहृदां हृदयालूनामास्यं पश्यन्नदो ऽवदत् ॥ ३०॥ अपि विद्यात्रयीहृद्यान्कुर्वती खर्वितोत्तरान् । अतुल्यमूल्या यस्योक्तिभगिरप्यङ्ग रङ्गति ॥ ३१ ॥ स विक्रीणाति यं श्लोकं लोकम्पृणगुणं भणन् । तं क्रीणन्हेमलक्षण दक्षो विक्षोभमेति कः ॥३२॥ युग्मम् ।। वदन्निति सुहृद्वृन्दैनन्दितो नृपनन्दनः।। प्रीतः किंचित्परिक्रम्य श्लोकविक्रयिणं जगौ ॥ ३३ ॥ गृहाण स्पृहया हेम मूक्तरनं वितीर्यताम् । . पुन नरश्रेष्ठ कथ्यतां तथ्यमाकरः ॥ ३४॥ ...