________________
[स. २. ११-२२] वासुपूज्यचरितम्
पात्रदानं हृदानन्दहेतुरत्र परत्र च । कृतिनो रतिसारस्य कुमारस्येव कल्पते ॥ ११ ॥
तथाहि विद्यते माहिष्मतीति विदिता पुरी। यत्पौरैः पूर्यते लक्ष्म्या लोलत्वं दानलीलया ॥ १२ ॥ सुभूम इति भूपो ऽभूत्तत्र निश्छत्रितद्विषत् । यस्य दानश्रियः केलिकाननं कल्पपादपाः॥ १३ ॥ पुत्रः क्षितिपतेस्तस्य बभूव भुवनाद्भुतः। . रतिसाराभिधः शुद्धकलाकमलिनीरविः ॥ १४ ॥ पतिव्रतेव रूपश्रीर्यस्य विश्वमनोहरा । नापे सुरैरपि ध्यानपूर्णपूर्णमनोरथैः ॥ १५ ॥ अदूषणैर्गुणैर्यस्य मुदितो मेदिनीपतिः । अदात्प्रसादतः स्वेच्छावित्तव्ययनवल्गितम् ॥ १६ ॥ स कदापि कलावद्भिर्वृतो रविरिवांशुभिः। विचिक्रीड पुरकोडे पौरदृक्पङ्कजप्रियः ॥ १७ ॥ असावपश्यदुत्पश्यैवीक्ष्यमाणं विचक्षणैः । नरं कंचित्पताकाग्रजाग्रन्थिं चतुष्पथे ॥ १८ ॥ अथोचितचमत्कारे कुमारे परिपृच्छति । तस्य स्वरूपं चिद्रूपः कश्चिदेवं न्यवेदयत् ॥ १९ ।। कुमार कोऽपि साकारस्तुङ्गमानः पुमानयम् । कुतो ऽपि केतुमान्मातरापपात पुरान्तरम् ॥ २० ॥ वीक्ष्य ग्रन्थि ध्वजाग्रे ऽस्य नागरैर्गुणसागरैः। इह वस्तु किमस्तीति स्पष्ट पृष्टो ऽयमभ्यधात् ॥ २१ ॥ इह श्लोकस्त्रिलोकस्य हितो ऽस्ति महितो बुधैः । विक्रीणे कार्यतो निष्कलक्षणामूल्यमप्यमुम् ॥ २२ ॥