________________
अथ द्वितीयः सर्गः
अथ ज्ञाननिधिर्जानन्राजानं भाविनं जिनम् । चचः प्रपञ्चयांच मोहद्रोहकरं गुरुः ।। १ । भ्रान्तैश्चतुरशीत्यङ्गिलक्षयोनिवने ऽङ्गिभिः । निर्भाग्यैर्दुर्लभः कल्पद्रुकल्पो मानवो भवः ॥ २ ॥ जन्यते निष्फलः स्वर्गापवर्गफलदो ऽप्यसौ । अज्ञानैश्व प्रमत्तैश्व कैश्चित्प्राप्तोऽपि पुण्यतः ॥ ३ ॥ तदिष्टफलदं मर्त्यपदं जानीत सज्जनाः । विरच्यतां विपश्चिद्भिरप्रमादश्च तत्फले ॥। ४ ॥ सिक्तो गुरूक्तिपीयूषैः प्रथयन्पुण्यपुष्पितम् । दानशीलतपोभावमिषं शाखाचतुष्टयम् ॥ ५ ॥ श्रितच्छायो भवारण्यभ्रमिखिनैः सुरासुरैः । तस्मै फलाय कस्मैचिन्मानवानां भवो भवेत् ॥ ६ ॥ युग्मम् ॥ जना दानं तु जानन्तु प्रधानं सर्वकर्मणाम् । अपि शीलतपोभावैः शुद्धैर्यद्धुरि धार्यते ॥ ७ ॥ शक्रचक्रधरादीनामदीनामपि संपदम् । भोगभाग्यनिदानस्य दानस्यैव वशां विदुः ॥ ८ ॥ भवार्णवस्य वीचीषु श्रीषु लोलासु लालसाः । मज्जन्ति पात्रदानं ये यानपात्रं न तन्वते ॥ ९ ॥ भवाब्धियान पात्रेषु यत्पात्रेषु निधीयते । असंख्यीभूय भूयस्तद्दातुर्भोगाय जायते ।। १० ।