________________
श्रीवर्धमानमरिविरचितं [स.१.६४८-६५९] स्त्रीणां गणः प्रणम्यर्षि वयस्तं पर्यचारयत् ॥ ६४८॥ ततो धात्रीतले तत्र पवित्र चित्रकारणम् । सहस्रपत्रमासूत्रि तपनीयमयं तया ॥ ६४९ ॥ धन्यस्तन्मध्यमध्यास्य घनाघनघनध्वनिः। कर्णैकपेयं पीयूषमुच्चैः किंचिदुवाचं सः ॥ ६५० ॥ लोला कोलादयो वन्या धन्यंमन्या इवाभितः । तद्वाग्नवसुधां पातुमुपान्तवसुधां श्रिताः॥ ६५१ ॥ आसीनास्तरुराशीनामुपालोलमौलयः । दिग्भ्यो ऽभ्येत्य मुदं भेजुः पिबन्तस्तस्य गाः खगाः॥६५२॥ विमानोमतस्तूर्णमुत्तीर्णा वर्णिनीयताः । उद्यदानन्दविद्योतमाननिर्मानमानसाः ॥ ६५३ ॥ जगद्गुरो जय जय वज्रनाभ मुनीश्वर । इति स्तुत्वा च नत्वा च तस्थुस्तस्य पुरः सुराः॥६५४ ।।
युग्मम् ॥ इत्यक्षिसाक्षिणीमाख्यामाख्यातुं भवतः प्रभो। मुक्त्वा मनो ऽपि तत्रैव त्वरयाहमिहागमम् ॥ ६५५ ॥ अथ धात्रीभुजा मन्त्री वीक्ष्यमाणमुखो ऽवदत् । शङ्के ऽसौ केवलज्ञानी वज्रनाभो महामुनिः ॥ ६५६ ॥ महीरुहामधिष्ठानदेवीभिः सेव्यमानया। वनदेवतया देव तयादौ कृतसत्कृतिः ॥ ६५७ ॥ मुदां निदानं सत्त्वानां तत्त्वानां रत्नदीपिकाः। मुनिः प्रतनुते धर्मदेशना क्लेशनाशिनीः ॥ ६५८ ॥ तद्धान्तिर्यत्र ते सैष धर्मः साक्षात्लमीयताम् । यदेव देवतारन्दैः सेव्यते स पुमानपि ॥६५९॥