SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [स.१. ६३७–६४७] वासुपूज्यचरितम् आपतन्त्यो महीमस्मत्प्रभुसौभाग्यभाग्यतः । पुरन्दरकुरङ्गाक्ष्यः कटाक्षान्विक्षिपन्ति किम् ।। ६३७ ।। आकृष्टः पुण्यपुष्ट्या वा दानीन्द्रस्यास्मदीशितुः । अभ्येति नभसा रत्नद्वीपो रत्नकरान्किरन् ॥ ६३८ ॥ इत्यनल्पविकल्पोर्मिरसभाजि सभाजने । राज्ञा तज्ज्ञातुमाज्ञाय को ऽप्येकः सेवकः स्वकः || ६३९ || त्रिभिर्विशेषकम् ॥ अध्यास्य सौधनमसौ सस्मयविस्मयः । एत्याशु नृपमित्यूचे चञ्चद्रोमाञ्चकञ्चुकः || ६४० | प्रभो पञ्चविधोञ्चन्मणिसंचयरोचिषः । नृत्यन्त इव केतुनामञ्चलैर्वायुचञ्चलैः ।। ६४१ ।। सुस्वादनादाः प्रासादाः प्रसर्पन्तः पुरोपरि । निपतन्तो निरूप्यन्ते नभसः केलिकानने || ६४२॥ युग्मम् ।। अथ कौतूहलोत्तालश्चचालाच्छपरिच्छदः । हयैः कतिपयैः केलिवनाय क्षितिनायकः ।। ६४३ ॥ स यावज्जगतीहारः प्राकारद्वारमागमत् । गत्यातुरः पुरस्तावदारामपतिरापतत् ।। ६४४ ॥ वनस्वरूपं भूपेन पृष्टः संहृष्टमानसः । स जगौ जगदानन्दरसनिस्यन्दिनीं गिरम् ॥ ६४५ ।। स्वामिन्कन चण्डांशुनिवहस्य रहस्यवत् । धाम्नां धाम त्वदाराममाजगाम महामुनिः ।। ६४६ ।। आगत्य कापि शम्पाभसंपच्चम्पककाननात् । अमुं ननाम कामस्याङ्गिनी शक्तिरिवाङ्गना ।। ६४७ ॥ कुसुमद्रुममौलिभ्यः समुत्तीर्य तदा मुदा ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy