________________
श्रीवर्धमानसूरिविरचितं [स.१.६२५-६३६] महामात्य ममात्यर्थ तद्वतग्रहणे रतिः । तदाशु तद्विधिः सर्वविधिज्ञ मयि धीयताम् ॥ ६२५ ॥ अजल्पि कल्पितामोदं दन्तांशुकुसुमत्रजैः। . बचो विमलबोधेन सुधानामधिदैवतम् ॥ ६२६ ॥ स्वामिन्सह रहस्येन जानते ये जिनागमम् । त एव गुरुखो गौरधियो व्रतविधौ बुधाः ॥ ६२७ ।। अथालपन्नृपः स्मित्वा मन्त्रिन्संभाव्यते बुधः। किं त्वत्तोऽपि गुरुः को ऽपि शास्त्रबोधनशुद्धधीः ॥२८॥ उवाच सचिवः स्वामिन्मेदं वादीर्यतो मतः । द्वारं मोक्षस्य धर्मस्य नेत्रं क्षेत्रं धियां गुरुः ॥६२९ ॥ ये ऽपि सर्वज्ञदेवास्ते ऽप्यामनन्ति गुरुं गुरुम् । भाग्जन्मगुरुवाक्तेषामपि तत्फलंबीजति ॥ ६३ ॥ क स सद्गुरुरस्तीति प्रीते पृच्छति पार्थिवे । मन्त्रीन्दुरानपाइन्तरुग्धौतेन पथा गिरम् ॥ ६३१ ॥ शुद्धप्रवचन: शुद्धचरितः शुद्धदेशकः । स्वामिन्गुरुगुरूकर्तु योग्यो भाग्येन लभ्यते ॥६३०॥ तनोति मन्त्रिणा यावदित्यालापमिलापतिः । तावदाविरभूत्तत्र चित्रमाकस्मिकं महः ॥ ६३३॥ कचिचन्द्रप्रभाचारु कचिद्विद्रुमविभ्रमम् ।। कचिदम्भोदसौन्दर्य कचित्काञ्चनकोमलम् ॥ ६३४ ॥ कचित्कीरच्छदच्छायं कचित्पारापतोपमम् । कचित्सिन्दूरविद्योति कचित्केकिकलापरुक् ।। ६३५ ॥ कीर्ण सभान्तः संभ्रान्तस्तदालोक्य तदा नृपः । दृशं प्रतिदिशं तन्वञ्जज्ञे विस्मरविस्मयः ॥ ६३६ ॥
त्रिभिर्विशेषकम् ॥