________________
[स.१. ६१३-६५४] वासुपूज्यचरितम् ।
तदेवं देव जानीहि पद्मोत्तरनृपोत्तर । प्रभावं प्राच्यपुण्यानां पुण्याव्यस्य निदर्शनात् ॥ ६१३ ॥ किं च कर्मवशं विश्वमवश्यमिदमीश तत् ।। मया कृतमदः कार्यों न कदाचिदयं मदः ॥ ६१४ ॥ जडः कार्ये सुनिष्पन्ने मयाकारीति माद्यति । तस्मिन्पुनरनिष्पन्ने दोषं दैवाय यच्छति ॥ ६१५ ॥ पूर्वगर्वग्रहक्रीडात्रीडापीडातुरस्ततः । अभ्यधावसुधाधीशः स सुधाबन्धुरां गिरम् ॥ ६१६ ॥ स्वच्छन्दं छन्दवृत्त्या ये रञ्जयन्ति महीभुजम् । लक्ष्मीहृतिकृतोपायाः शत्रवस्ते न मन्त्रिणः ॥ ६१७ ॥ अप्रवृत्तिगतं भृत्या मुदे भूपं स्तुवन्ति ये । ते पाययन्ति सीषि कुवैद्या इव सज्वरम् ॥६१८ ॥ अच्छन्दवादिनो नीतिपात्रं मन्त्रीश मन्त्रिणः । भवन्ति भूभुजां भाग्यवैभवेन भवादृशाः ॥ ६१९ ।। युक्तं दुर्गतिकूपस्य कण्ठाग्रादिव गर्वतः। बालको जनकेनेव त्वयाहमपवाहितः ॥ ६२० ॥ युक्तमुक्तं च कर्माणि प्रमाणं प्राक्तनानि यत् । दुःस्थादुःस्थव्यवस्थेयमन्यथा प्रथते कथम् ॥ ६२१ ॥ कर्माणि न प्रमाणं चेत्तत्सर्वो ऽपि न किं प्रभुः । अवश्यं स्वस्य नैव स्यात्को ऽपि काप्यल्पचिन्तकः॥६२०॥ यतितव्यं ततः प्राज्ञैः शुभे कर्मणि निर्मदैः। अपारं गोष्पदीकर्तुममुं संसारसागरम् ॥ ६२३ ॥ यत्तस्य व्रतिनो दृष्टिकण्टकाकृष्टिजं फलम् । तेषां तादृगभूत्किं स्यात्पुंसां तत्रादृते व्रते ॥ ६२४ ॥