________________
श्रीवर्षमानसूरिविरचितं [स.१.६०३-६१२] अथाहत्पतिमामर्ककोटिकान्तिकृतामिव । पश्यन्स भूपश्चिक्षेप भवकोटिभवं तमः॥ ६०३ ॥ रूपातिशयविस्फूतौं विभोर्मूर्ती नरेशितुः । स्पर्धयेवाक्षियुग्मस्य जगाम स्थिरतां मनः ॥६०४ ॥ आनन्दामृतमग्नस्य लीनं तस्य मनस्तथा । यथा जिनं च विश्वं च स्खं च नो बुबुधे तदा ॥ ६०५ ॥ समत्वमसृणीभूतः प्रभूताद्भुतशक्तिभृत् । आरूढः क्षपकश्रेण्यां शुक्लध्यानामलो नृपः ॥ ६०६ ॥ तस्य घातीनि कर्माणि दग्धानि ध्यानवह्निना । तद्वियोगादिव भवोपग्राहीण्यप्यगुः क्षणात् ॥ ६०७ ॥ तस्यामिव सहायायां घटिते घनमेलतः। नृपे ऽस्मिन्कृतसंकेते ज्ञानमोक्षश्रियौ समम् ॥ ६०८ ।। अथ विज्ञाय तज्ज्ञाननिर्वाणमवनीविभोः । मूढत्वेनैव मन्वानान्वज्रपातमिवोत्सवम् ॥ ६०९ ॥ हा तातेति हहा भर्तरिति हा त्रायकेति च । नन्दनान्तःपुरीलोकान्क्रन्दतः प्रतिबोध्य सः ॥ ६१ ।। तदा मुदागतैः सम्यग्दृष्टिभिस्त्रिदशैः सह ।। कृत्वोर्ध्वदेहिकं कृत्यं स्वमित्रस्य शुभात्मनः ॥ ६११ ॥ पुण्यसाराभिधं न्यस्य पुत्र राज्ये ऽत्र भूपतेः । अनुशास्य जिनार्चायां द्विपदेवो दिवं ययौं ॥ ६१२॥ -
चतुर्भिः कलापकम् ॥
.
.
॥ इति हंसकेशवनिदर्शनान्विता पुण्यप्रामाण्ये
पुण्याढयभूपतिकथा ॥