SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानसूरिविरचितं [स.१.५७९-५९०] तविपानशनस्थानं वीक्ष्य दुःखादचिन्तयत् ॥ ५७९ ॥ हा मां कामान्धहृदयं भवभावा व्यलोभयन् । स्वभङ्गभीरवो यन्मे कृत्यनाशं वितेनिरे ।। ५८०॥ नानोपकारिणस्तस्य करिणः कर्तुमीहितः। मोहोल्लासादिह हहा प्रासादो ऽपि न कारितः ॥ ५८१ ॥ एवं ध्यानपतचित्तो ऽमात्यानित्यादिशन्नृपः। विपुलं द्विपनाम्नात्र कार्यतां जिनमन्दिरम् ॥ ५८२ ॥ अह्ना मासेन वर्षेण दशवापि भोजनम् । करिष्यामि जिनं प्रेक्ष्य प्रासादे ऽत्र प्रतिष्ठितम् ॥ ५८३ ।। नृमाणिक्य न शक्यो ऽयं तरीतुं निश्चयार्णवः । इत्येष लपतो ऽमात्यानवमत्याविशत्पुरम् ॥ ५८४ ॥ जिनधामद्रुताधानबद्धारम्भास्तदैव ते । पुण्याहर्मगलं तत्र मन्त्रिमुख्या व्यधापयन् ॥ ५८५ ॥ हृदुत्तारितसंसारव्यापारः सास्थर्मधीः । अकृताहार एवाष्टौ नृपो निन्ये दिनानि सः॥५८६ ॥ ततः प्रत्यूषशेषायां रजन्यां जातजागरम् । देवः स एव प्रत्यक्षीभूय भूपमभाषत ॥ ५८७ ॥ जय त्वं कीर्तिविस्तीर्ण निस्तीर्णभवसागर । प्रतिपन्नमनोदाढर्य श्रीपुण्याढ्य महीपते ॥ ५८८ ॥ अवधिज्ञानतो ज्ञात्वा नृदुःपूरं तवाग्रहम् । लोकोत्तरं स्वरूपं च किंचिदव भावि ते ॥ ५८९ ॥ शुभापुर्या तत्तपनानिश्चित्य ज्ञानभास्करात् । बिम्बं निर्माय जैनेन्द्रं पतिष्ठाप्य यथाविधि ॥ ५९० ॥ . अस्थापयं वने तस्मिंश्चैत्ये पूर्णीकृते क्षणात् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy