________________
[स. १. ५६८- ५७८] वासुपूज्यचरितम्
इत्थं हंसस्य विपदं संपदं केशवस्य च । श्रुत्वा मुखागुरोः स्वर्गिकथमद्मि फलं निशि ।। ५६८ ॥ सुरा विरता नित्यं श्रावका विरतिस्पृशः । तदेवमावयोर्भेदो जज्ञे पुण्याढयपार्थिव ।। ५६९ ॥ तदभ्यर्च्य जिनं धर्मिधर्माशावृदयस्पृशि । अङ्गरोगविभङ्गाय तदिदं फलमाहरेः || ५७० ॥ इत्युदित्वा तिरोभूते सुरे दध्यौ नरेश्वरः । अहो जीवन्मृतो ऽपीभः कियन्मय्युपकारकः ।। ५७१ ।। त्रिभिर्विशेषकम् ॥
तदस्य नागनाथस्य नाम्ना धाम जिनेशितुः । कारयिष्याम्यनशनस्थाने कैलासशैलवत् ।। ५७२ ।। इत्यादिमधुरध्यानो गमयित्वा तमीमिमाम् । जिनपूजन पूतात्मा भूपस्तत्फलमाहरत् ।। ५७३ ।। तदैव फलतस्तस्मादकस्माद्भूपतेर्वपुः । सरोजमिव संकोचमुन्मुमोच विरोचनात् ।। ५७४ ॥ भूपः स्वभावसुभगो धूतसंकोचविक्रियः । विश्वदृक्यतां प्राप दिनमुक्तेन्दुधामवत् ।। ५७५ ।। अङ्गपाटवमङ्गल्यगर्जन्नागरगौरवः ।
४९
व्रजन्त्यहानि भूजानिर्जानीते स्म न कानिचित् ।। ५७६ ॥ क्रीडदन्तःपुरीलोकस्तो की भूतत्रपाभरः ।
निनाय नायकः क्ष्मायाः प्रीत्या कत्यपि वासरान् ||५७७ || उत्पन्ननन्दनानन्दसुधास्नानवशेन्द्रियः ।
स मेने कत्यपि समाः स्वसमान्नाकिनोऽपि न ॥ ९७८ ॥ arriडारसाधनो रसाधीशः कदाप्ययम् ।