________________
४८
श्रीवर्धमानमूरिविरचितं [स.१.५५६-५६७]
स्वमैक्षत ततः मापः सतातं सपरिच्छदम् ॥५५६॥युग्मम् कुथिताङ्गातिदुर्गन्धवस्तबन्धुकदम्बकम् । .. एकयैवाम्बया युक्तं रोदनाच्छूननत्रया ॥५५७॥ अतिभिर्नरकातीनां सारोद्धारैरिवादितम् । आसन्नमृत्युं भूक्षिप्तं दुःखी हंसं ददर्श सः॥५५८॥युग्मम्।। तव्यथाव्यथितो ऽपीदृग्दूरमार्गद्रुतागतौ । कुतः शक्तिरिति ध्यायन्सो ऽपश्यहिदैवतम् ॥ ५५९ ॥ मा कार्षीविस्मयं मत्वावधिज्ञानात्तव व्यथाम् । आगां कर्तुं वरं सत्यमित्युक्त्वागादिवं सुरः ॥ ५६० ॥ हृष्टेन केशवनाथ पाणिस्पृष्टेन पाथसा । हंसः सिक्तश्च रोगौघमुक्तश्च द्रुतमुत्थितः ॥ ५६१ ॥ पूर्वस्मादुत्तरेणैव वपुषा विपुलद्युतौ । जाते ऽस्मिन्बन्धुवर्गस्य प्रावर्तन्त महोत्सवाः॥ ५६२ ।। एवं प्रभावमुद्भाव्य केशवस्य नरेशितुः । दधौ व्याधिवधाय स्वे मूर्ध्नि पादोदकं न कः ॥ ५६३॥ किं वर्ण्यः केशवोर्वीशः सिषेवे यत्पदोदकम् । भूतभाविरुजो भेत्तुमासमुद्रं नृपैरपि ॥ ५६४ ॥ भाविरोगभिया स्वर्णकलशे क्षिप्तमोकसि । न जीवितमिवारक्षि केनो- तत्पदोदकम् ॥ ५६५१॥ सद्यः प्रभावमासाद्य भूपतेरिति धर्मजम् । रात्र्याहारपरीहारपरा जज्ञे धरा स्वयम् ॥ ५६६ ॥ अथायं दिग्जयं कृत्वा स्थित्वा साकेतपत्तने । पात्वा चिरं धरामत्रामुत्राभूत्परमः सुखी ॥ ५६७ ॥ ॥ इति रजनीभोजनत्यागे केशवकथा ॥