________________
[ स. १. ५४४ - ५५५ ] वासुपूज्यचरितम्
सौधादुत्तीर्य नृपतिः पितुः पदयुगे ऽपतत् ॥ ९४४ ॥ तादृग्विभूतिपर्यङ्कने ऽप्यद्य रङ्कोपमाश्रयः ।
४७
कुतः पितरितो ऽसीति प्राह च प्रीतिदुःखितः । ५४५ ।। नन्दनस्य नरेन्द्रत्वपदेन मुदितो ऽपि सन् । दुःखाश्रूणि हवार्तामाह यशोधनः ।। ५४६ ॥ धीमन्गते त्वयि तदा हंसो भोक्तुं निवेशितः । भूमौ पपात संजातभ्रमिर्भुक्ता भोजनः || ५४७ ।। एतत्किमिति तन्मात्रा दीपे दूरादुपाहते । तद दर्शि गरलं तुलापट्टे च पन्नगः ।। ५४८ ॥ धर्मज्ञं मन्यमानेन त्वां तदा तदुदाहृतेः ।
कुटुम्बेन महाक्रन्दचक्रे दिक्कत्रविक्रमी ।। ५४९ ॥ तदाकन्द मिलल्लोकवर्ती विषभिषग्वरः ।
२
एको हि मन्त्रिकाद्दानकृतोद्यममुवाच माम् ।। ५५० ।। न कार्यः क्लेशलेशो ऽपि सर्पस्यास्य विषक्लमैः । सटत्रुटगलत्कायो मासमेवैष जीवति ।। ५५१ ।। जनं विसृज्य शय्यायां शायितो ऽथ त्वद्ग्रजः । स्थितोऽस्मि तत्स्वरूपं च ज्ञातुं पञ्चदिनीं गृहे ।। ५५२ ॥ रोमरोमपतच्छिद्रं मत्वाथ मृतमेव तम् ।
त्वां द्रष्टुं निरगां गेहांत्सुकृतैर्दर्शितो ऽसि च ।। ५५३ ॥ विषग्रासदिनान्मासः पूर्णः क्ष्मामटतो मम ।
स्वज्ज्येष्ठोऽमृतो वास्तु म्रियतां वा हतो ऽस्मि हा ।। ५५४ || योजनानां शतमितस्तत्पुरं मत्पुराद्भवेत् ।
कथं याम्यद्य तत्राशु जीवद्वन्मुखोत्सुकः ।। ५५५ ।। तद्वार्ता इति ध्यायन्नेव हंसस्य पार्श्वगम् ।