________________
श्रीवर्धमानसूरिविरचितं म.१.५३२-५४३] xxmmmmmmmmmmmm अपुत्रः कुत्र राज्यं स्वं न्यस्यामीत्यस्मि दुःखितः ॥५३२॥ मत्पुण्येनेव मूर्तेन पुंसा दिव्येन केनचित् । स्वमे ममेति शान्तेन निशान्ते ऽद्य न्यवेद्यत ॥५३३ ॥ प्रातर्देशान्तरादेति यस्ते गुरुपुरः स्थिते। योग्ये तस्मिन्भुवं न्यस्य भव पूर्णमनोरथः ॥५३४॥ अथास्तनिद्रो निर्माय प्रातःकृत्यमिहागमम् । अपश्यं चैनमायातमाकारख्यातसत्कुलम् ॥ ५३५॥ अथादिशद्गुरुर्ज्ञानी केशवस्य शुभात्मनः । वृत्तं निशाशनत्यागनिश्चयामोदसुन्दरम् ॥ ५३६ ॥ मम केनोपदिष्टो ऽयमिति पृष्टे ऽथ भूभुजा । वह्निनामुष्य सत्कर्महष्टेनेति गुरुगौ ॥ ५३७॥ इति श्रुत्वा गुरुं नत्वा सत्त्वाधिकगुरुः पुरम् । . केशवेन समं प्रीतः प्रविवेश विशां विभुः ॥ ५३८ ॥ स्वराज्ये केशवं भूमानभ्यषिश्चन्महोत्सवैः। स्वयं सूरगुरोः पार्थे तदैव व्रतमग्रहीत् ॥५३९ ॥ . ययौ श्रीकेशवो राजा नन्तुं देवान्विवेकवान् । सामात्यस्तत्र चैत्येषु पताकाभासुरे पुरे ॥ ५४० ॥ विहितातुल्यमङ्गल्यः स्वसौधे शुद्धधीय॑धात् । । दुस्थितानां स दानेन तारणः पारणस्थितिम् ॥ ५४१ ।। प्रतापाक्रान्तसीमालभूपालः पालयन्प्रजाम् । स राज्यं न्यायनैपुण्यहृष्यन्मन्त्रिजनो ऽतनोत् ॥ ५४२ ॥ कदाचित्पितुरुत्कण्ठामाप भूपो गवाक्षगः । ददर्श च पथि श्रान्तं भुवि यान्तं यशोधनम् ॥ ५४३ ॥ अनुधावत्परिजनप्रकरः सत्वरस्ततः ।