________________
४४
श्रीवर्धमानमूरिविरचितं [स.१.५०९-५२०] दिवसे ऽप्यद्य किं निद्राविवशे मे दृशौ भृशम् । किं नान्तः पदवीकाशसुरभिः श्वासमारुतः ॥ ५०९ ॥ इति शङ्काजुषं यक्षस्तमूचे मुश्च निमताम् । प्रातःकृत्यानि कृत्वाशु भूहार कुरु पारणम् ॥ १० ॥ सो ऽप्युवाच न वञ्च्यो ऽहं यक्ष दक्षतया तव । विशालैव निशाद्यापि त्वन्मायोत्थमहर्महः॥५११ ॥ इत्यस्य जल्पतो मूर्ध्नि पुष्पष्टिर्दिवो ऽपतत् । । स त्वं धीमञ्जय जयेत्यभून्नभसि भारती ॥ ५१२ ॥ पुरः सुरमसौ कंचिच्चञ्चदर्चिषमैक्षत । न यक्षं न च यक्षौको न च यक्षार्चकान्वने ॥ ५१३ ॥ स्मितांशुकुसुमश्रेणिशृङ्गारसुरभीकृतम् । मुखश्रीलक्षितप्रीतिरित्यादत्त वचः स च ॥ ५१४ ॥ एकः पुण्यवतां रत्नं निःसपनगुणो भवान् । भवादृशां प्रसूत्यैव रत्नगर्भा बभूव भूः॥५१५ ॥ शृणु सत्त्वभराधान्तस्वान्त वृत्तान्तमान्तरम् । मध्येसभमिति पोच्चैश्चक्रे शक्रस्तव स्तवम् ॥ ५१६ ॥ अहो वरेण्यतारुण्यः पुण्यवान्सुखलालितः । यशोधनस्य वणिजस्तनुजो मनुजोत्तमः ।। ५१७॥ रजनीभोजनत्यागात्केशवः क्लेशकोटिभिः। अचलाचलचैतन्यश्चाल्यते नामरैरपि ॥ ५१८ ॥ युग्मम् ।। तदाकर्ण्य तदा कर्णतमानपुसमं वचः । स्वभावादाभादेव देवले पि मुखोषिते ॥ ५१९ ॥ दुःखितो ऽन्यमशंसानिर्देवः सर्वाभिसारवान् । महर्दिाहिनामाहमिहागां त्वां परीक्षितुम् ॥ ५२० ॥युम्मम्।।