________________
[स.१. ४९७-५०८] वासुपूज्यचरितम्
किं राज्यदानशक्तेन नामी राज्यभृतः कृताः । - किं भापयसि मां मृत्योः का भीनियतभाविनः॥४९७॥
एवं नियमवाग्दक्षं यक्षो ऽयं क्षान्तिमानिव । प्रहृष्टो हृष्टरोमालिः समालिंग्य जगाद तम् ॥ ४९८ ॥ साधु मित्र धियां पात्र न स्यादेष गुरुस्तव । मृता मया न जीवन्ति नैव राज्यं च दीयते ॥ ४९९ ॥ इत्थमुक्ते ऽथ यक्षेन्द्रे सहासं सहसोत्थितः । मुनिरूपं परित्यज्य खं ययौ यक्षकिंकरः ॥ ५००॥ विस्मयस्मेरवक्राक्षमनया चित्रमायया। उवाचाचलचित्तेशं केशवं यक्षपुङ्गवः ॥ ५०१ ॥ खिन्नः सप्तोपवासैस्त्वं क्लिन्नश्वाध्वविहारतः । विश्रम्येह निशामति सहैभिः कुरु पारणम् ॥ ५०२॥ इत्युक्त्वादर्शयत्तस्मै स तल्पं शक्तिकल्पितम् । केशवो ऽस्मिन्विशश्राम श्रेयसीव यशश्चयः ॥ ५०३ ॥ यक्षयात्राजनैर्यज्ञादिष्टैःसंवाहितक्रमः। . केशवो ऽकलयन्निद्रागुन्निद्रसुकृतक्रमः ॥ ५०४॥ विभावरी विभातेयं निद्रा विद्राव्यतामिति । तं प्रत्यक्षो जगौ यक्षो निद्रातन्द्रालुलोचनम् ॥ ५०५॥ अथ निद्रादरिद्राक्षो विश्वं वीक्ष्य दिनोज्ज्वलम् ॥ नभो ऽभूषितं चेति चिन्तयामास केशवः ॥ ५०६ ॥ ब्राह्म एव मुहूर्ते ऽहमन्वहं कृत्यनिष्टधीः । स्वयं यामि त्रियामान्तयामसुप्तो ऽप्यनिद्रताम् ॥ ५०७ ॥ अह्नि यामार्धमात्रे ऽपि त्रियामार्धशयो ऽप्यहम् । स्वयं नाद्य विनिद्रत्वमासदं किमिदं किल ॥ ५०८ ॥